________________
६३० ]
सिद्धान्तकौमुदी। [लकारार्थकरोमि । अहं न्वकार्षम् । २७८२ पुरि लुङ् चास्मे । (३-२-१२२) अनद्यतनग्रहणं मण्डूकप्लुत्यानुवर्तते । पुराशब्दयोगे भूतानद्यतने विभाषा लुङ्, चालट , न तु स्मयोगे। पक्षे यथाप्राप्तम् । वसन्तीह पुरा छात्रा अवारसुः अवसन् ऊषुर्वा । अस्मे किम्-यजति स्म पुरा । भविष्यतीत्यनुवर्तमाने२७८३ यावत्पुरानिपातयोर्लट् । (३-३-४) यावद् भुते । पुरा भुक्के । निपातावेतौ निश्वयं द्योतयतः । निपातयोः किम्-यावद्दास्यते तावद्रोच्यते । करणभूतया पुरा यास्यति । २७८४ विभाषा कदाकोः । (३-३-५) भविष्यति लड् वा स्यात् । कदा कर्हि वा भुने भोषयते भोका वा । २७८५ कार्षमित्युत्तरम् । अहं नु करोमि, अहं न्वकार्षमिति च । 'तकें नु स्यात्' इत्यमरः । पुरि लुङ् चारेम । अस्मे इति च्छेदः । पुरेत्याकारान्तमव्ययम् । पुरीति तस्य सप्तम्येकवचनम् । आत इति योगविभागादाल्लोपः। मण्डूकप्लुत्येति । अत्र व्याख्यानमेव शरणम् । चालडिति । तथा च लुङ् लट् च वेति फलितम् । पक्ष इति । एतदुभयाभावपक्षे इत्यर्थः । यथाप्राप्तमिति । अनद्यतनपरोक्षभूते लिट् । परोक्षत्वाविवक्षायां तु लङित्यर्थः । 'अभिज्ञावचने-' इत्यारभ्य एतदन्ता विधयस्तृ. तीयस्य द्वैतीयोकाः । अथ तृतीयस्य तार्तीयीका विधयो वक्ष्यन्ते ।
__ भविष्यतीत्यनुवर्तमाने इति । 'भविष्यति गम्यादयः' इति सूत्रादिति भावः । यावत्पुरा । यावत् पुरा इति द्वे पदे । अनयोः प्रयुज्यमानयोलेट् स्यादित्यर्थः । लुडादेरपवादः । निश्चयं द्योतयत इति । 'यावत्तावच्च साकल्येऽवधौ मानेऽवधारणे' इत्यमरः। यावदास्यते तावद्भोक्ष्यते इति । यत्परिमाणकं तत्परिमाणकमित्यर्थः । 'यत्तदेतेभ्यः परिमाणे वतुप्' इति वतुबन्तत्वेन निपातत्वामावान्न लडिति भावः। करणभूतयेति । पुरा यास्यतीति प्रत्युदाहरणान्तरम्। पुर्शब्दस्य पुरेति तृतीयान्तमिदम् । तत्स्फोरणाय करणभूतयेत्युक्तम् । विभाषा भूत इत्येव । पक्षे लुङ् । अन से तु लङ् । पले यथाप्राप्तमिति । लुक्लटो. रभावपक्षे लङ् , पारोदये तु लिडित्यर्थः । भविष्यतीति । 'भविष्यति गम्यादयः' इति सूत्रात् । यावत्पुरा । लक्षणप्रतिपदोक्लपरिभाषाऽनियेति निपातप्रहणेन ज्ञाप्यते । यावद् भुङ्क्त इति । निश्चितं भोक्ष्यत इत्यर्थः । यावदास्यत इति । अनद्यतनभविष्यति तु यावदाता तावद्भोक्तति प्रत्युदाहर्तव्यम्। विभाषा । ननु 'अनद्यतनेहिलन्यतरस्याम्' इत्यनद्यतने किमोहिल्विहितस्ततश्च कहियोगे लुटैव भाव्यमिति कथमुदाहियते कर्हि भोक्ष्यत इति। अत्राहुः-भविष्यत्सामान्ये भोक्ष्यते इति लुट् । कहियोगे तु अनद्यतनावगतिर्लक्षणयेति । भोक्ता वेति । ननु भवि