________________
प्रकरणम् ६४ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६२६
२७७६ हशश्वतोर्लङ च । ( ३-२-११६ ) अनयोरुपपदयोर्लिविषये लक्ष् स्यात् । चाल्लिट् । इति ह श्रकरोच्चकार वा । शश्वद् अकरोच्चकार वा । २७७७ प्रश्ने चासन्नकाले । ( ३-२-११७ ) प्रष्टव्यः प्रश्नः । श्रासन्नकाले पृच्छधमानेऽर्थे विषये लक्लिटौ स्तः । अगच्छक्किम् । जगाम किम् । श्रनासन्न तु कंसं जघान किम् । २७७८ लट् स्मे । ( ३-२-११८ ) लिटोऽपवादः । यजति स्म युधिष्ठिरः । २७७६ अपरोक्षे च । ( ३-२-११६ ) भूतानद्यतने लट् स्यात्स्मयोगे । एवं स्म पिता ब्रवीति । २७८० ननौ पृष्ठप्रतिवचने । ( ३-२-१२० ) अनद्यतने परोक्ष इति निवृत्तम् । भूते लट् स्यात् । चकार्षीः किम् । ननु करोमि भोः । २७८१ नन्वोर्विभाषा । ( ३-२-१२१ ) नशब्दे नुशब्दे च लड् वा स्यात् । श्रकार्षीः किम् । न करोमि । नाकार्षम् । अहं नु
दत्यन्तापह्नवो ज्ञेयः । कलिङ्गेष्ववात्सीरित्यत्र 'अकर्मकधातुभिर्योगे देशः कालो भावः - ' इति कर्मसंज्ञायाः पाक्षिकत्वान्न द्वितीयेति कारकाधिकारे निरूपितम् । हशश्वतोर्लङ् च । स्पष्टम् । प्रश्न चासन्नकाले । प्रश्न इत्यनेन प्रश्नविषयो विवक्षित इत्याह प्रष्टव्यः प्रश्न इति । श्रर्थे इत्यनन्तरं वर्तमानाद्धातोरिति शेषः । प्रयोक्तृदृष्टिपथातिक्रान्तत्वमनासन्न कालत्वम् । वृत्तौ तु पञ्चवर्षातीतकालः श्रनासन्नकाल इत्युक्तम् । लट् स्मे । स्मेत्यव्ययम् । तद्योगे लिविषये लट् स्यादित्यर्थः । यजति स्मेति । स्मशब्दो भूतकालद्योतकः । अपरोक्षे च । एवं स्मेति । पिता एवमुक्तवानित्यर्थः । ननौ पृष्ठ | निवृत्तमिति । व्याख्यानादिति भावः । श्रकार्षीः किमिति प्रश्नः । ननु करोमीत्युत्तरम् । अकार्षमित्यर्थः । नन्विति संबोधने । नन्वोर्विभाषा । ननु अनयोर्द्वन्द्वः, तदाह नशब्दे नुशब्दे चेति । लड् वा स्यादिति । भूते इति शेषः । अकार्षीः किमिति प्रश्नः । न करोमि ना
1
त्यन्तापह्नव इति लडेव भवति, न कलिङ्गेष्वगच्छमिति प्रश्न च । प्रश्न भूतानद्यतनपरोक्षे इति वर्तते । प्रश्न इत्यत्र कर्मणि नङित्याह प्रष्टव्य इति । आसन्नेति । पञ्चवर्षाभ्यन्तरमासन्नकालं पञ्चवर्षातीतं तु विप्रकृष्टकालमित्याहुः । पृच्छ्यमान इति । आसन्नकालिके भूतानद्यतनपरोक्षार्थ वृत्तिधात्वर्थे प्रष्टव्ये सतीत्यर्थः । प्रश्ने किम्, भूतानद्यतनपरोक्षे लिडेव । जगाम चैत्रः । लद् स्मे । स्मे इत्यव्ययं भूतकालद्योतकम् । ननौ । पृस्य प्रतिवचनमिति विग्रहः । समाहारद्वन्द्वे तूभयत्र स्यात्, इष्यते च प्रतिवचने एव लट्, तदाह ननु करोमीति । न च पृष्टप्रहणं व्यर्थ यावता प्रश्नपूर्वकमेव प्रतिवचनं भवतीति वाच्यम्, विरुद्धमपि वचनं प्रतिवचनं वचनाभिमुख्यमपि प्रतिवचनमिति पृष्टग्रहणं कर्तव्यमिति कैय स्थितत्वात् । नम्वोः ।