________________
६२८]
सिद्धान्तकौमुदी। [लकारार्थक्ने वत्स्यामस्तत्र गाश्चारयिष्यामः । वासों लक्षणं चारणं लक्ष्यम् । पक्षे लङ् । यच्छन्दयोगेऽपि 'न यदि' (सू २७७४ ) इति बाधित्वा परत्वाद्विकल्पः । 'परोक्ष लिट' (सू २१७१ ) चकार। उत्तमपुरुषे चित्तविक्षेपादिना पारोच्यम् । 'सुप्तोऽहं किल विललाप' 'बहु जगद पुरस्तात्तस्य मत्ता किलाहम्' । 'अत्यन्ता. पहवे लिड् वक्तव्यः' (वा २०८४)। कलिङ्गेष्ववात्सीः । नाहं कलिङ्गान् जगाम । बोधिन्युपपदे इत्यर्थः। लक्ष्यलक्षणभावेनेति । ज्ञाप्यज्ञापकभावेनेत्यर्थः । अत्र व्याख्यानमेव शरणम् । स्मरसीति । पूर्व वने अवसाम, तत्र वने गा अचा. रयाम इति यत् तद् हे कृष्ण स्मरसीत्यर्थः। अत्र यद् इत्यस्य गम्यत्वेऽपि तस्य प्रयोगाभावान यद्योगः । वासो लक्षणमिति । चारणस्येति शेषः। उभयत्रापि लड्विकल्पः । अभिज्ञावचनयोगस्य अविशिष्टत्वादिति भावः । न च यद्योग एवं 'विमाषा साकाः ' इति विकल्पोऽस्त्विति भ्रमितव्यम् , यदि च अयदि चाय विकल्प इति भाष्यात्तदाह यच्छब्दयोगेऽपीति । 'परोक्ष लिट्' इति
श्रा व्याख्यातमपि विशेषविवक्षया स्मार्यते। अहमर्थस्य प्रत्यक्षत्वात् परोक्षत्वा. भावात् कथमस्य लिट उत्तमपुरुष इत्यत आह उत्तमपुरुषे चित्तेति । सुप्त
इति । सुप्तत्वादहं विललापेत्यर्थः। अत्र स्वापाच्चित्तविक्षेपः। बहु जगदेति । मंत्तत्वावस्य पुरस्तादहं बहु जगदेत्यर्थः । अत्र उन्मादाच्चित्तविक्षेपः । श्रादिना में व्याससंग्रहः । अत्यन्तापह्नवे इति । अपरोक्षार्थमिदम् । कलिङ्गेष्ववा
सीरिति । अतस्त्वं न सहवासयोग्य इति प्रश्नः। 'अङ्गवङ्गकलिङ्गेषु सौराष्ट्रम५. गधेषु चे। तीर्थयात्री विना यातः पुनः संस्कारमर्हति।' इति वचनादिति भावः ।
नाह कलिङ्गान् जगामेत्युत्तरम् । कलिङ्गशब्दस्य जनपदविशेषवाचित्वाद् बहुचनम् । अत्र तद्देशगमनोत्तरकालिकवासविषयकप्रश्ने कारणीभूतगमनस्यैवापलापा
वासो लक्षणमिति । प्रसिद्धत्वाज्ज्ञापकमित्यर्थः । चारणं लक्ष्यमिति । सहसा :: बुध्यनारोहाज्ज्ञाप्यम् । पक्ष लङिति । वने अवसाम। ग' अचारयाम । यच्छ
ब्दयोगेऽपीति । अत एव 'न यदि' इति योगात्पूर्व 'विभाषा साकाः ' इति न
कृतमिति भावः । अत्यन्तापह्नव इति । अपह्नवोऽपलापस्तत्र प्रात्यन्तिकत्वं :: नामेत्थं यदभियुक्तस्तद्धेतोरप्यपढ्नुतिः । नाहमित्यादि। कलिङ्गो नाम निषिद्धो
देशः । 'अव कलिङ्गेषु सौराष्ट्रमगधेषु च । तीर्थयात्रा विना गत्वा पुनःसंस्कार- मईति' इति स्मरणात्तस्मिन्देशे त्वया गतं चिरं स्थितमिति केनचित्कश्चिदुक्तः सन्नाह
माहं कलिजाजगामेति । न केवलमवस्थानमेव निषिध्यते किं तर्हि तद्धेतुभूतं गमनम.. पीति भदस्यत्यन्तापहवः । यदा तु कलिङ्गेष्वगम इत्युक्तः सन्गमनमेवापलपति न तदा