________________
प्रकरणम् ६३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६२७
अथ लकारार्थप्रकरणम् ॥ ६४ ॥ २७७३ अभिशावचने लुट् । (३-२-११२) स्मृतिबोधिन्युपपदे भूतानद्यतने धातोलृट् स्यात् । बडोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृती वृत्तिसम्भवात् । २७७४ न यदि । (३-२-११३) यद्योगे उक्नं न । अभिजानासि कृष्ण यद्वने प्रभुज्महि । २७७५ विभाषा साकाङ्क्ष । (३-२-११४) उऋविषये लुड् वा स्याद् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण प्रकरणे सर्वत्र पच्यते श्रोदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य
आत्मना करणेनेत्यर्थः, न त्वात्नना कति, तथा सति कर्मण्येव लः स्यादिति 'णेरणौ-' इति सूत्रे कैयटे स्पष्टम् । इति श्रीवासुदेव दीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमाख्यायां कर्मकर्तृप्रक्रिया समाप्ता । अथ लकारार्थप्रक्रिया निरूप्यते । अभिज्ञावचने लुट् । अभिज्ञा स्मृतिः, सा उच्यते बोध्यते अनेनेति विपहः, तदाह स्मृतिबोधिन्युपपदे इति । स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः। भूते इत्यधिकृतम् । 'अनद्यतने लङ्' इत्यतः अनद्यतने इत्यनुवर्तते, तदाह भूतानद्यतने इति । लङ इति । अनद्यतने लङित्यस्यापवाद इत्यर्थः । स्मरसीति । हे कृष्ण गोकुले अवसामेति यत् तत् स्मरसीत्यर्थः । अत्र वाक्यार्थः कर्म । कृतं गोकुलवासं स्मरसीति यावत् । एवमिति । स्मरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगेऽपि लुडित्यर्थः। ननु बुध्यत्यादेः स्मृतित्वेन रूपेण स्मृत्यर्थकत्वाभावात्कथमिह लडित्यत आह तेषामपीति । पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लुट् । एतदर्थमेव वचनप्रहणमिति भावः । न यदि । यदीति सप्तमीति मत्वाह यद्योगे इति । उक्तं नेति । अभिज्ञावचने इति लुड् न भवतीत्यर्थः । अभिजानासीति । वने अभुज्महीति यत् तत् सरसीत्यर्थः । विभाषा। उक्तविषये इति। अभिज्ञा
अभिज्ञा । भूते इत्यधिक्रियते। 'अनद्यतने लड्' इत्यतः अनयतन इति वर्तते । अभिज्ञा स्मृतिः, सा उच्यते बोध्यतेऽनेनेति विग्रहस्तदाह स्मृतिबोधिनीत्यादि । वत्स्याम इति । अवसामेत्यर्थः । पश्य मृगो धावतीत्यत्र वाक्यार्थरूपमृगकर्तृकधावनमिव स्मरसोत्यत्र गोकुलाधिकरणकास्मत्कर्तृकभूतानद्यतनवासो वाक्यार्थः कर्म । कृष्णेति संबोधनं स्मरणक्रियायां विशेषणम् । तथा च पूर्वोक्तनिवासकर्मकं कृष्णसंबन्धकं स्मरणमिति फलितोऽर्थः । न यदि । लुटः प्रतिषेधे उत्सर्गो लङ् ।