________________
६२६ ] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्पदं च । प्रात्मनेपदापवादः । कुष्यति, कुष्यते वा पादः । रज्यति, रज्यते वा वस्त्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रक्षीष्ट ।
इति कर्मकर्तृतिप्रकरणम् । सिचो लोपः । 'कुषिरजोः । अनयोरिति । 'कुष निष्कर्षे, रज रागे' इत्यनयोरित्यर्थः । कर्मकर्तरीति । 'अचः कर्मकर्तरि' इयतो मण्डू कप्लुत्या तदनुवृत्तेरिति भावः । 'न दुहस्नुनमाम्-' इत्यतो नेति यगिति चानुवर्तते, तदाह न यगिति । कित श्यनिति । यग्विषये इत्यर्थः । एवं च यग्विषयादन्यत्र न श्यनः प्रवृत्तिः। न यगित्यनुक्त्वा श्यनो विधाने तु यग्विषयादन्यतार्धधातुकेऽपि रयन् स्यादिति भावः । प्राचांग्रहणाद्विकल्पः, तदाह कुष्यति, कुष्यते वा पाद इति । स्वयमेवेति शेषः । कुष्णाति पादं देवदत्त इति मुख्यकतुलकारे पादः कर्म । तस्य पुरुषप्रयत्न. मनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम् । तदुभयाभावे यकि आत्मनेपदे च कुष्यते इति रूपमिति भावः । यकश्यनोः स्वरे विशेषः । श्यनि कुष्यन्ती वधूरित्यत्र 'शपश्यनोनित्यम्' इति नित्यं नुम् । यकि तु 'श्राच्छीनद्यो:-' इति विकल्पः स्यात् । रज्यति, रज्यते वा वस्त्रमिति । अन्तर्भावितण्यर्थतायां देवादिकत्वात् श्यनि रज्यति वनमित्यत्र रञ्जयतीत्यर्थः । मुख्ये कर्तरि लः । कर्मणः कर्तृत्वविवक्षायां तु रज्यति, रज्यते वा वस्त्रमिति भवतीत्यर्थः । यगविषये तु नास्त्येवेति । श्यनिति शेषः। यकं प्रतिषिध्य तत्स्थाने श्यनो विधिसामादित्यर्थः। कोषिषीष्टेति । आर्धधातुकत्वेन यगविषयत्वान श्यन् । तत्संनियोगशिष्टत्वात् परस्मैपदं च श्यनभावे सति न भवतीति भावः । रक्षीष्टेति । रजेः सीयुटि जस्य कुत्वेन गः। तस्य चत्वेन कः । अनुस्वारपरसवर्णौ । अत्र कर्मकर्तृ. न यक् । किं तु श्यन्निति । तस्मिन्नेव विषय इति भावः । 'न गिरा गिरेति ब्रूयात्' इत्यादौ गिरं कृत्वा गेयमित्यत्र गिरापदं प्रतिषिध्यगि(गिरं)रापदं विधीयमानं गिरापदस्थान एव यथा मवत्येवमिहापि यकः प्रतिषेधं कृत्वा विधीयमानः श्यन् तदीयस्थान एव भवत्यतो व्याचष्टे यगविषये तु नास्येति । श्यना सन्नियोगशिष्टं परस्मैपदं श्यन्नभावे न भवतीत्यात्मनेपदमेवोदाहरति । कोषिषीष्टेति चुकुषे । कोषिष्यते । अकोषि । अकोषिष्यत। ररजे । रक्ष्यते । अरञ्जि । अरक्ष्यत इत्याद्यपि ज्ञेयम् । श्यपक्ष कुष्यन्तीत्यत्र नित्यं नुम् । यक्पक्षे तु 'आच्छीनद्यो:-' इति विकल्पः । खरे विशेषोऽप्यस्त्येव । इह प्रकरणे भिद्यते काष्ठं स्वयमेवेति वृत्त्यादौ प्रयुज्यते । तत्र स्वयंशब्दः करणार्थको ज्ञेयः । आत्मना करणेनेति । कर्मत्वे तु कर्मणि लः स्यात् । स्पष्टं चेदं कैयटादौ । इति तत्त्वबोधिन्यां कर्मकर्तृप्रक्रियाप्रकरणम् ।