Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 643
________________ ६४० ] सिद्धान्तकौमुदी। [लकारार्थत्वं शूदान्न भोयसे । अस्ति भवति विद्यते वा शूदीं गमिष्यसि । अत्र लुङ् न । २८०४ जातुयदोलिङ् । ( ३-३-१४७ ) लुटोऽपवादः । 'यदायद्योरुप. संख्यानम्' ( वा २२७५) । जातु यद्यदा यदि वा त्वादृशो हरि निन्देन्नावकल्पयामि न मर्षयामि । लुङ् प्राग्वत् । २८०५ यच्चयत्रयोः । (३-३-१४८) यच्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि । २८०६ गत्यां च । इति । न संभावयामीत्यर्थः। त्वं शूदान्नं भोक्ष्यसे इति यत् तत् न श्रद्दधे न मर्षये वा किंकिलेत्यन्वयः । किंकिलेति क्रोधं द्योतयति । अस्तीति । शूदस्य स्त्री शूदी। तां गमिष्यसीत्यस्ति भवति विद्यते देत्यन्वयः । अत्र लङ् नेति । भविष्यति नित्यं लुङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिको विध्यभावेन लिनिमित्तविरहात् । जातुयदोलिङ् । जातु यद् अनयोः प्रयोगे अनवक्लुप्त्यमर्षयोलिङ् स्यादित्यर्थः। यदिति विभक्तिप्रतिरूपकमव्ययम् । अनववलुप्त्यमर्षयोरकिंवृत्तेऽपीति लिङ्लुटौ प्राप्तौ लिवेत्यर्थमिदम् , तदाह लटोऽपवाद इति । यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसंख्यानमित्यर्थः। जात्वादिशब्दा उदाहरणे अनवक्लुप्त्यमर्षद्योतकाः । त्वादृशो हरि निन्देदित्येतद् नावकल्पयामि न मर्पयामि वेत्यन्वयः । नावकल्पयामीत्यस्य न संभावयामीत्यर्थः । लुङ् प्राग्वदिति । भविष्यति नित्यं लुङ् भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्य अनवक्लुप्त्यमर्षयोश्च लिनिमित्तत्वादिति भावः । यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लृप्त्यमर्षयोनिङ स्यादित्यर्थः । लुटोऽपवादः। योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवक्लुप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतद् न १द्दधे न मर्षयामि ल्लिङ् निवर्तत इत्याशयेनाह लिङोऽपवाद इति । अस्ति भवतीति । त्वत्कतृकं शूद्रागमनमस्तीत्यादिरर्थः । लुङ नेति । लिङो निवृत्तत्वेन तन्निमित्तत्वाभावात् । जातुयदोर्लिङ् । अनवक्लुप्त्यमर्षयोरिति वर्तते । तथा च ' नवक्तृप्यमर्षयोः' इति लिङ्लुटोः प्राप्तयोर्वचनमिदं लुटो बाधनार्थम् , तदाह लुटोऽपवाद इति । अयं कालत्रये । लुङ् प्राग्वदिति । क्रियातिपत्तौ भूते वा भविष्यति नित्यमित्यर्थः । जातु भवान् हरिमनिन्दिष्यदित्यायुदाहर्तव्यम् । अगर्थिमिदम् । गर्हायां तु जातुयोगे लडुक्तः । यच्चयत्रयोः। 'अनवक्तृप्त्यमर्षयोः' इति वर्तते । यथासंख्यमिह नेष्यते । अयमपि लिङ्लुटोरपवादः । योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवानुवृत्तिर्यथा स्यादित्येतदर्थः । क्रियातिपत्तौ लुङ् प्राग्वत् । यच्च यत्र वा त्वमेवमकरिष्यो न श्रद्दधे न मर्षयामीत्यादि । गर्दायां च । कालत्रयेऽयं भवतीति सर्वलकारापवादः ।

Loading...

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714