________________
६४० ]
सिद्धान्तकौमुदी। [लकारार्थत्वं शूदान्न भोयसे । अस्ति भवति विद्यते वा शूदीं गमिष्यसि । अत्र लुङ् न । २८०४ जातुयदोलिङ् । ( ३-३-१४७ ) लुटोऽपवादः । 'यदायद्योरुप. संख्यानम्' ( वा २२७५) । जातु यद्यदा यदि वा त्वादृशो हरि निन्देन्नावकल्पयामि न मर्षयामि । लुङ् प्राग्वत् । २८०५ यच्चयत्रयोः । (३-३-१४८) यच्च यत्र वा त्वमेवं कुर्याः न श्रद्दधे न मर्षयामि । २८०६ गत्यां च । इति । न संभावयामीत्यर्थः। त्वं शूदान्नं भोक्ष्यसे इति यत् तत् न श्रद्दधे न मर्षये वा किंकिलेत्यन्वयः । किंकिलेति क्रोधं द्योतयति । अस्तीति । शूदस्य स्त्री शूदी। तां गमिष्यसीत्यस्ति भवति विद्यते देत्यन्वयः । अत्र लङ् नेति । भविष्यति नित्यं लुङ्, भूते वेत्युक्तमिह न संभवति, अत्र लिको विध्यभावेन लिनिमित्तविरहात् । जातुयदोलिङ् । जातु यद् अनयोः प्रयोगे अनवक्लुप्त्यमर्षयोलिङ् स्यादित्यर्थः। यदिति विभक्तिप्रतिरूपकमव्ययम् । अनववलुप्त्यमर्षयोरकिंवृत्तेऽपीति लिङ्लुटौ प्राप्तौ लिवेत्यर्थमिदम् , तदाह लटोऽपवाद इति । यदायद्योरिति । यदायद्योः प्रयोगेऽपि उक्तविषये लिङ उपसंख्यानमित्यर्थः। जात्वादिशब्दा उदाहरणे अनवक्लुप्त्यमर्षद्योतकाः । त्वादृशो हरि निन्देदित्येतद् नावकल्पयामि न मर्पयामि वेत्यन्वयः । नावकल्पयामीत्यस्य न संभावयामीत्यर्थः । लुङ् प्राग्वदिति । भविष्यति नित्यं लुङ् भूते वेत्युक्तमिहाप्यनुसंधेयमित्यर्थः, जात्वादियोगस्य अनवक्लुप्त्यमर्षयोश्च लिनिमित्तत्वादिति भावः । यच्चयत्रयोः । यच्चेति समुदाये यत्रशब्दे च प्रयुज्यमाने अनवक्लृप्त्यमर्षयोनिङ स्यादित्यर्थः । लुटोऽपवादः। योगविभागस्तु उत्तरसूत्रे अनयोरेवानुवृत्त्यर्थः । उदाहरणे यच्चेति यत्रेति च अनवक्लुप्त्यमर्षद्योतकौ । त्वमेवं कुर्या इत्येतद् न १द्दधे न मर्षयामि ल्लिङ् निवर्तत इत्याशयेनाह लिङोऽपवाद इति । अस्ति भवतीति । त्वत्कतृकं शूद्रागमनमस्तीत्यादिरर्थः । लुङ नेति । लिङो निवृत्तत्वेन तन्निमित्तत्वाभावात् । जातुयदोर्लिङ् । अनवक्लुप्त्यमर्षयोरिति वर्तते । तथा च ' नवक्तृप्यमर्षयोः' इति लिङ्लुटोः प्राप्तयोर्वचनमिदं लुटो बाधनार्थम् , तदाह लुटोऽपवाद इति । अयं कालत्रये । लुङ् प्राग्वदिति । क्रियातिपत्तौ भूते वा भविष्यति नित्यमित्यर्थः । जातु भवान् हरिमनिन्दिष्यदित्यायुदाहर्तव्यम् । अगर्थिमिदम् । गर्हायां तु जातुयोगे लडुक्तः । यच्चयत्रयोः। 'अनवक्तृप्त्यमर्षयोः' इति वर्तते । यथासंख्यमिह नेष्यते । अयमपि लिङ्लुटोरपवादः । योगविभागस्तु उत्तरसूत्रद्वये यच्चयत्रयोरेवानुवृत्तिर्यथा स्यादित्येतदर्थः । क्रियातिपत्तौ लुङ् प्राग्वत् । यच्च यत्र वा त्वमेवमकरिष्यो न श्रद्दधे न मर्षयामीत्यादि । गर्दायां च । कालत्रयेऽयं भवतीति सर्वलकारापवादः ।