________________
प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६४१
( ३-३-१४६ ) अनवक्ष्त्यमर्षयोरिति निवृत्तम् । यच्चयत्रयोर्योगे गर्हायां निदेव स्यात् । यच्च यत्र वा त्वं शूद्रं याजये: अन्याय्यं तत् । २८०७ चित्रीकरणे च । ( ३-३-१५० ) यच्च यत्र वा स्वं शूद्रं याजयेः आश्चर्यमेतत् । २८०८ शेषे लृडयदौ । ( ३-३-१५१ ) यच्चयत्राभ्यामन्यस्मिन्नुपपदे चित्रीकरणे गम्ये धातोर्लट् स्यात् । प्राश्चर्यमन्धो नाम कृष्णं द्रच्यति । भयदौ किम् - भाश्चर्य यदि मूकोऽधीयीत । २८०६ उताप्योः समर्थयोर्लिङ् । ( ३-३-१५२ ) वाढमित्यर्थे ऽनयोस्तुल्यार्थता । उत अपि वा हन्यादवं हरिः । समर्थयोः किम्-उत दण्डः पतिष्यति । अपिधास्यति द्वारम् । प्रश्नः प्रच्छादनं च गम्यते । इतः प्रभृति विनिमित्ते क्रियातिपत्तौ भूतेऽपि नित्यो
वेत्यन्वयः । अत्रापि भविष्यति नित्यं लृङ् भूते वेत्युक्तमनुसंधयम्, लिङ्निमित्तस्य सत्त्वात् । गर्हायां च । निवृत्तमिति । व्याख्यानादिति भावः । ' यच्चयत्रयोः ' इति लिङिति चानुवर्तते, तदाह यश्चयत्रयोर्योगे इति । लिङेवेति । न तु लकारान्तरमित्यर्थः । उदाहरणे यच्चेति यत्रेति च गद्योतकम् । त्वं शूदं याजयेरिति यत तदन्याय्यमित्यन्वयः । लृङ् प्राग्वत् । चित्रीकरणे च । यच्चयत्रयोः प्रयोगे आश्चर्ये गम्ये लिडेव स्यात्, न तु लकारान्तरमित्यर्थः । उदाहरणे यश्चेति यत्रेति चाश्चर्यद्योतकम् । त्वं शूद्रं याजयेरिति यत् तदाश्चर्यमित्यन्वयः । शेषे लृडयदौ । यच्चयत्राभ्यामन्यः शेषः, तदाह यच्चयत्राभ्यामन्यस्मिन्निति । यदिभिन्ने इति शेषः । लृट् स्यादिति । न तु लकारान्तरमित्यर्थः । आश्चर्यमिति । अन्धः कृष्णं ददयतीत्याश्चर्यमित्यन्वयः । नामेत्यव्ययमाश्चर्यद्योतकम् । मूक इति । मूकोऽधीयीत इत्याश्चर्यमित्यन्वयः । यदीत्यश्चर्थद्योतकम् । उताप्योः । समौ । ययोरिति विग्रहः । शकन्ध्वादित्वात्पररूपम् । एकार्थकयोरित्यर्थः । कममादायानयोरेकार्थकत्वमित्यत आह बाढमिति । तथा च बाढार्थकयोः उत पे इत्यनयोः प्रयोगे लिङ् स्यान्न तु लकारान्तरमित्यर्थः ।
लिङेव स्यादिति । गर्हायां 'विभाषा कथमि-' इति लट् प्राप्तस्तत्रैव 'किंवृते-' इति लृट् प्राप्तस्तयोरपवादो यच्चयत्रयोर्योगे विहितोऽयं लिङिति भावः । लृड् प्राग्वत् । यच्च यत्र वा त्वं शूदनयाजयिष्यस्तदन्याय्यमित्यादि । चित्रीकरणे च । श्रयमपि कालत्रये लृङ् प्राग्वत् । यच्च यत्र वा त्वं शूक्ष्मयाजयिष्य श्राश्वर्यमेतत् । शेषे । सर्वलकारापवादः । सोऽधीयीतेति । यदाययोरुपसंख्यानाद् 'जातुयदो:-' इति लिङ् । लिङ्निमित्ताभावादिह लृड् न । उताप्योः । धातोर्लिङ् स्यात्कालत्रये । भूतेऽपि नित्य इति । वाग्रहणस्य निवृत्तत्वाद् भविष्यतीव भूतेऽपि नित्यं लृङ् ।