________________
प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३६ गर्हायामित्येव । विभाषा तु नानुवर्तते । कः कतरः कतमो वा हरिं निन्देत् , निन्दिष्यति वा । लुङ्.प्राग्वत् । २८०२ अनवक्लुप्त्यमर्षयोरकिंवृत्तेऽपि । (३-३-१४५) गर्हायामिति निवृत्तम् । अनवक्तृप्तिरसंभावना । अमर्षोऽक्षमा। न सम्भावयामि न मर्षये वा भवान्हरिं निन्देत् , निन्दिष्यति वा । कः कतरः कतमो वा हरिं निन्देत् , निन्दिष्यति वा । लुङ् प्राग्वत् । २८०३ किंकिलास्त्यर्थेषु लुट् । (३-३-१४६) अनवक्लुप्त्यमर्षयोरित्येतद् 'गौंयां च' (सू २८०६) इति यावदनुवर्तते । किंकिल्लेति समुदायः क्रोधद्योतक उपपदम् । अस्त्यर्था अस्तिभवतिविद्यतयः । लिकोऽपवादः । न श्रद्दधे न मर्षये वा किंकिल लूटौ। नानुवर्तते इति । व्याख्यानादिति भावः। विभक्त्यन्तं डतरडतमान्तं च किंशब्दनिष्पन्नं किंवृत्तमित्युक्तम् । तस्मिन्प्रयुज्यमाने गर्दायां लिब्लुटौ स्त इत्यर्थः । सर्वलकाराणामपवादाविति वृत्तिः । लुङ् प्राग्वदिति । भविष्यति नित्यं लुङ्, भुते वेति प्रागुक्तमिहाप्यनुसंधेयमित्यर्थः । लिनिमित्तस्य किंवृत्तस्य गर्हायाश्च सत्त्वादिति भावः । अनवक्लुप्त्यमर्ष । निवृत्तमिति । व्याख्यानादिति भावः। अनवक्लृप्त्यमर्षयोः लिङ्लुटोश्च यथासंख्यं नेष्यते, अल्पान्तरस्य अमर्षशब्दस्य पूर्वनिपातत्यागादिति वृत्तिः । न सम्भावयामीति । अकिंवृत्ते उदाहरणम् । भवान् इरिं निन्देदिति यत् तत् न संभावयानि न मर्षये वेत्यन्वयः । किंवृत्ते उदाहरति कः कतर इति । लुङ् प्राग्वदिति । भविष्यति नित्यं लब् भूते वेत्युक्तमिहाप्यनुसंधयमित्यर्थः। किंकिल । किंकिलेति समुदायस्य अस्त्यर्थानां च द्वन्द्वः । यावदिति । 'गर्दायां च' इत्यतः प्रागित्यर्थः। किंकिलेत्यस्मिन् अस्त्यर्थेषु च प्रयुज्यमानेषु अनवक्लुप्त्यमर्षयोर्लट् स्यादित्यर्थः । पूर्वसूत्रेण लुङ्लुटोः प्राप्तौ लुडेवेत्यर्थमिदम् , तदाह लिङोऽपवाद इति । न श्रद्दधे भविष्यत्यनद्यतने लुट् त्यक्तासि । भविष्यत्सामान्ये लुट् कथं धर्म त्यक्ष्यसीत्यादि । अत्रेति । क्रियातिपत्ताविति ज्ञेयम् । किंवृत्त । लिङ्लुटौ कालत्रय स्तः । नानुवर्तत इति । एवं चास्मिन्विषये निन्दति निन्दिष्यत्यनिन्ददिति कालत्रये लकाराः पक्षे न भवन्तीति भावः । प्राग्वदिति । कियातिपत्तौ भविष्यति नित्यं लुङ् । भूते वेत्यर्थः। अनवक्लुप्त्यमर्षयोः । लिङ्लुटावनुवर्तेते तौ च कालत्रये भवतस्तेन सर्वलकाराणामपवादौ । किंवृत्तस्यानधिकारादेवाविशेषादुभयोर्भविष्यतीत्यकिवृत्तेऽपीति न कर्तव्यम् । पूर्वनिपातार्हस्याल्पाचः परनिपातो यथासंख्यनिवृत्त्यर्थः । लुङ् प्राग्वदिति । भूते का भविष्यति नित्यमित्यर्थः । नाहं भावयामि चैत्रो हरिमनिन्दिष्यदित्यायुदाहर्तव्यम् । किंकिलास्त्यर्थेषु । लिङ्लुटोः प्राप्तयोरिह लुड्महणा