________________
६३८] सिद्धान्तकौमुदी। [लकारार्थजातु गणिकामाधरसे, गर्हितमेतत् । २८०० विभाषा कथमि लिङ् च । (३-३-१४३) गायामित्येव । कालत्रये लिङ्, चालट् । कथं वर्म त्यजेः त्यजसि वा । पक्ष कालत्रये नकाराः । अत्र भविष्यति नित्यं लुङ्, भूते वा। कथं नाम तत्रभवान्धर्ममस्यचयत् । २८०१ किंवृत्ते लिङ्लुटौ । (३-३-१४४) लड्विधानेन तद्विषये लिङ्निमित्ताभावात् । कालत्रये इति । वर्तमाने भूते भविष्यति चेत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामा ये लडिति भावः । परत्वादिति । अनवकाशत्वाचेत्यपि द्रष्टव्यम् । अपि जायामित्यत्र जातु गणिकामित्यत्र च अपिजातुशब्दौ निन्दाद्योतको, तदाह गर्हितमेतदिति । विभाषा कथमि लिङ् च । गर्हायामित्येवेति । अनुवर्तत एवेत्यर्थः । कालत्रये लिडिति शेषपूरणम् । भविष्यतीति निवृत्तमिति भावः । चालइिति । समुचीयते इति शेषः । तथा च कथमित्यस्मिन् प्रयुज्यमाने कालत्रये गर्दायां लिङ्लटौ वा स्त इति फलितम् । कथं धर्म त्यजेरिति । त्यक्तवान त्यक्ष्यसि त्यजसि वेत्यर्थः। गर्हितमेतदिति कयंशब्दाद्गम्यते। लटि उदाहरति त्यजसि वेति । उकोऽर्थः। पक्षे इति । विभाषाग्रहणाल्लिङ्लटोरभावपक्षे भूते वर्तमाने भविष्यति च कालत्रये लिड्लङ्लुङ्लड्लुड्लट इत्यर्थः । अत्रेति । अत्र उक्तविषये भविष्यति काले कियाया अनिष्पत्तौ गम्यमानायां 'लिनिमित्ते लुङ् क्रियानिपत्तौ' इति नित्यमेव लुङ्, कथमो गर्हायाश्च लिनिमित्तस्य सत्त्वादित्यर्थः, विशेषविहितत्वादिति भावः । भूते वेति । 'वोताप्योः-' इति भूते लिङ्निमित्ते लुङ्वेति अधिकृतत्वादुक्वविषये भूतकाले लुङ् वेत्यर्थः । भविष्यति नित्यं लुडित्यगोदाहरति कथं नामेति । तत्रभवानिति समुदायः पूज्यवाची । वेदप्रामाण्याभ्युपगन्तेति यावत् । एवंविधः कथं धर्ममत्यक्ष्यत् , तत्त्यागस्य गर्हितत्वादिति भावः । किवृत्ते लिङ्लिनिमित्ते भुत एवायं विकल्पः, भविष्यति तु नित्यमेव लुङ् । गोयाम् । अत्र 'वोताप्योः' इति न संबध्यते । वर्तमाने लडुक्तः कालत्रये तु न प्राप्नोतीति विधिर. यम् । कालत्रय इति । कालविशेषानुपादानादिति भावः । परत्वादिति । निरवकाशत्वादित्यपि बोध्यम् । अपि जायामिति । त्यक्ष्यसि अत्याक्षीरित्यादिविषयेऽपि त्यजसीत्यादि लडेव प्रयुज्यत इति भावः । एवं यो जायां तत्याज अत्यजत् अत्याक्षीत् त्यक्ता त्यक्ष्यतीत्यादिविषयेऽपि यो जायामपि त्यजति जातु गाणकामाधत्ते इति लडेव कालत्रयलकारापवादतया प्रयोक्तव्यः । लिङ्निमित्ताभावादिह कियातिपत्तौ लुङ् न भवति । कालत्रये लकारा इति । परोक्षानद्यतनभूते लिट् कथं धर्म तत्यक्थ । भूतानद्यतने लङ् कथं धर्ममत्यजः । भूतसामान्ये लुङ् अत्याक्षीः ।