Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 637
________________ ६३४ ] सिद्धान्तकौमुदी। [लकारार्थवर्षिष्यति वा धान्यमवाप्स्म वपामो वस्यामो वा । सामान्यातिदेशे विशेषानतिदेशः, तेन ललिौ न । २७६१ क्षिप्रवचने लृट् । (३-३-१३३) क्षिप्रपर्याये उपपदे पूर्वविषये लुट् स्यात् । वृष्टिश्चेक्षिप्रमाशु स्वरितं वा यास्यति । शीघ्र वस्यामः । नेति वक्तव्ये लड्ग्रहणं लुटोऽपि विषये यथा स्यात् । श्वः शीनं वस्यामः । २७९२ आशंसावचने लिङ् । (३-३-१३४ ) श्राशं. सावाचिन्युपपदे भविष्यति लिङ् स्यान्न तु भूतवत् । गुरुश्चेदुपेयादाशंसेऽधीयीय । प्राशंसे क्षिप्रमधीयीय । २७६३ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः । भविष्यति लुङ, अवर्षीदिति अवाप्स्मेति च भवति । वपधातोर्नुडि उत्तमपुरुषबहुवचने अवाप्स्मेति भवति । दृष्टिवापयोरुभयोरप्याशंसाविषयत्वादुभयत्रापि लुङ् । वर्तमानवत्त्वपक्षे तु लट् । तदुभयाभावे तु लुट् । ननु भूतवत्त्वपक्षे ललिटावपि कुतो न स्यातामित्यत आह सामान्यातिदेशे इति । भूतत्व सामान्ये विहितस्यातिदेशादनद्यतनभूतत्वविशेषविहितयोर्लब्लिटो तिदेश इत्यर्थः । एतच्च भाष्ये स्पष्टम् । क्षिप्रवचने लृट् । वचनग्रहणात् क्षिप्रपर्याये इति लभ्यते, तदाह क्षिप्रपर्याये इति । पूर्वविषये इति । आशंसायामित्यर्थः । 'आशंसायां भूतवच्च' इत्यस्यापवादः । ननु क्षिप्रवचने नेत्येतावतैव आशंसायां क्षिप्रपर्याय उपपटे भविष्यति न भूतवद् न वर्तमानवदिति लाभाल्लुड्ग्रहणमनर्थकमित्यत आह नेति वक्तव्ये इति । क्षिप्रवचने नेत्युक्ते 'सामान्यातिदेशे विशेषानतिदेशः' इति न्यायेन भविष्यत्सामान्ये निहितस्य लुट एव निषेधः स्यात्, न तु लुटः, तस्य अनद्यतनभविष्यद्विशेषविधानात् । लुड्ग्रहणे तु उक्तविषये लुडेव स्यात् , न तु लकारान्तरमिति लाभाल्लुटोऽपि विषये लुडेवेति लभ्यत इत्यर्थः । श्वः शीघ्रं वस्याम इति । अनद्यतनत्वद्योत. नाय श्वश्शब्दः। अत्र न लुडिति भावः। आशंसावचने लिङ् । आशंसायाः प्राप्तीच्छाया भूते असंभवाद् भविष्यतीति लभ्यत इति मत्वाह भविष्यतीति । 'आशंसायां भूतवच्च' इत्यस्यापवादः, तदाह न तु भूतवदिति । गुरुश्चदिति । गुरुरुपेयाश्चेत् क्षिप्रमधीयीयेत्याशंसे इत्यन्वयः । क्षिप्रयोगेऽपि परत्वाल्लिव न तु तिप्रवचने । वचनप्रहणं स्वरूपग्रहणनिरासार्थम् , तदाह क्षिप्रपर्याय इति । पूर्वविषय इति । आशंसायामित्यर्थः । तेन पूर्वलकारापवादोऽयम् । आशंसावचने भूतवर्तमानवत्प्रत्यययोरपवादः । न भूतवदिति न वर्तमानवदित्यपि बोध्यम् । आशंसेऽधीयीयोंते । एवं प्रार्थये अधीयीय इच्छामो वयमधीयीमही. त्यादि ज्ञेयम् । तिप्रमिति । क्षिप्रप्रयोगेऽपि परत्वाल्लिङिति भावः । नानद्यतन । भूतानद्यतने लविहितो भविष्यत्यनद्यतने तु लुट् तौ चानयोरथयोनिषिध्येते, तदाह

Loading...

Page Navigation
1 ... 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714