Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 634
________________ प्रकरणम् ६४ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६३१ किंवृत्ते लिप्सायम् । (३-३-६) किंवृत्तं विभक्त्यन्तम् । भविष्यति लड् वा स्यात् । कं कतरं कतमं वा भोजयसि, भोजयिष्यसि, भोजयितासि वा । जिप्सायो किम्-कः पाटलिपुत्रं गमिष्यति । २७८६ लिप्स्यमानासिद्धौ च । (३-३-७) लेप्यमानेनानादिना स्वर्गादेः सिद्धौ गम्यमानायां भविप्यति लड् वा स्यात् । योऽयं ददाति, दास्यति, दाता वा, स स्वर्ग याति, यास्थति, याता वा । २७८७ लोडर्थलक्षणे च । ( ३-३-८) लोडर्थः प्रैषादिलच्यते येन तस्मिन्नर्थे वर्तमानाद्धातोभविष्यति लड् वा स्यात् । कृष्णश्चेद् भुने स्वं कदाकोः । भवि' यति लड् वा स्यादिति शेषपूरणम् । लडभावपक्षे लुट्लुटौ यथाप्राप्तम् , तदाह कदा कर्हि वा भुङ्क्ते भोक्ष्यते भोक्ता वेति । न च कहियोगे लडभावपक्षे लुडेवोचितः, न तु लुट् । 'अनद्यने हिलन्यतरस्याम्' इति हिलन्तकहियोगविरोधादिति वाच्यम्, लुडुदाहरणस्य कदावोगमात्रविषयत्वादित्याहुः । किंवृत्ते लिप्सायाम् । किंशब्देन वृत्तं निष्पन्नं किंवृत्तमित्यभिप्रेत्याह विभक्त्यन्तमिति । लड् वेति । लडभावे तु लुड्लुटौ यथाप्राप्तम् । किंवृत्तशब्देन विभक्त्यन्तडतरडतमा तानामेव ग्रहणमिति वृत्तिः । तेन कदादियोगे भविष्यति लट् । 'यत्तान्नित्यम्' इति सूत्रभाष्यरीत्या तु किंवृत्तानां सर्वेषां कदेत्यादीनामपि ग्रहणमिति युक्तम् । के कतरं कतमं वेति क्षुधितमन्नलिप्सुमिति शेषः । लिप्स्यमानसिद्धौ च । लड् वेति । पक्षे यथाप्राप्तम् । लिप्स्यमानसिद्धौ लिप्सायाः सत्त्वेऽप्यकिंवृत्तार्थमिदमिति मत्वोदाहरति योऽन्नमिति । योऽनं ददाति स स्वर्ग याति योऽन्नं दास्यति स स्वर्ग यास्यति । योऽनं दाता स स्वर्ग यातेत्य. न्वयः। लोडर्थलक्षणे च । लोडर्थः प्रैषादिरिति । विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु इत्यनुवृत्तौ 'लोट् च' इति लोविधानादिति भावः । कृष्णश्चेदिति । कृष्णभोजनकाले त्वं गाश्चारयेत्यर्थः । अत्र कृष्णभोजनं लोडर्थस्य गोचार• ध्यत्सामान्येऽयं लडिहितस्तस्य लुटा सह कथं विकल्पो विषयभेदादिति चेत् । अत्राहुः-'अनयतने लुट्' इत्यत्र 'विभाषा कदा-' इत्यादीनि कानिचिन्सूत्राणीष्ठातुरोधनानुवर्तन्ते तेन लुडिषयेऽपि लड् भवति न त्वनधतने लुटा लड् बाध्यत इति । किंवृत्ते । किमा वृत्तं किंवृत्तम् । केचित्तु यद्यपि कदाकुत्रेत्याद्यपि किं वृत्तं तथापि तन्न गृह्यते, अनभिधानात् । तेन कदा भोजयिष्यसीत्यादौ भविष्यति लड् नेत्याहुः । लिप्स्यमान । लिस्यमानसिद्धौ लिप्सायाः सत्त्वात्पूर्वेण सिद्धेऽप्यकिंवृत्तार्थमिदमिति ध्वनयन्नुदाहरति योऽन्नमिति । लोडर्थ । लोडर्थस्य लक्षणमिति षष्ठीतत्पुरुषः । कृष्णभोजनं लोडर्थस्य गोचारणप्रेषस्य लक्षणम् । भोजनकाले गोचारणं त्वया कर्तव्य

Loading...

Page Navigation
1 ... 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714