Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 622
________________ प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६१६ स्यात्कर्मकर्तरि तशब्दे परे । अकारि, अकृत । २७६६ दुहश्च । ( ३-१-६३ ) प्रदोहि । पते क्सः, 'लुग्वा -' ( सू २३६५ ) इति पचे लुक् । अदुग्ध, अधुक्षत । उदुम्बरः फलं पष्यते । 'सृजियुज्योः श्यंस्तु' ( वा १८७७ ) । इत्युक्तेः । अचः कर्मकर्तरि । 'च्लेः सिच्' इत्यतः च्लेरिति 'चिया ते पदः ' इत्यतः चिरते इति, 'दीपजन -' इत्यतः अन्यतरस्यामिति चानुवर्तते । 'धातोरेकाचः -' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य श्रचा विशेषितत्वात्तदन्तविधिः, तदाह अजन्तादित्यादिना । अकारीति । कटः स्वयमेवेति शेषः कर्मकर्तरि लुङ् । च्लेश्चिण् । वृद्धिः । रपरत्वम् । 'चिणो लुक् इति तशब्दस्य लुक् । श्रकृतेति । चिणभावपचे 'हस्वादङ्गात्' इति सिचो लोपः । दुहश्च । श्रच इतिवर्ज पूर्वसूत्रं तत्रानुवृत्तं यत्तत्सर्वमिद्दानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेश्चिरावा स्यादित्यर्थः स्पष्ट इति न व्याख्यातम् । अनुवृत्तिसौकर्यार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् । दोहीति । दुहेः कर्मकर्तरि लुङ् । स्वयमेव गौः पय इति शेषः । चिण्पत्ते लघूपधगुणः । चिणभावपक्षे श्राह पक्षे क्स इति । 'शल इगुपधात् -' इत्यनेनेति भावः । लुग्वेति । 'लुग्वा दुहदिहलिहगुहाम्-' इति क्सस्य पाक्षिको लुगित्यर्थः । श्रथ दुहिपच्योरित्यत्र पचेरुदाहरति उदुम्बरः फलं पच्यत इति । उदुम्बरवृक्षं फलं पचति कालविशेष इत्यत्र द्विकर्मकः पचिः । इह तु उदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्काश्रयं करोतीत्यर्थः । श्रत्र उदुम्बरस्य गौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात् 'सकर्मकाणां प्रतिषेधः' इति कर्मवत्त्वस्य प्रतिषेधे प्राप्ते 'दुहिपच्यो:-' इति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः । वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः । तथा च कर्मकर्तरि फलं पच्यते इत्यत्र फलस्यैव कर्मतया तस्य कर्तृत्वविवक्षायां पचेरकर्मकत्वात् 'सकर्मकाणाम् -' इति प्रतिषेधस्याप्रसक्तेः प्रतिप्रसवविधिरयं व्यर्थ इति यद्यपि । तथाप्यत्र मते उदुम्बरः फलं पचतीत्यत्र कर्तृ काष्ठम् । अत्र नित्यं चिण् । कर्मकर्तरि किम् अकारि घटः कुलालेन । अत्रापि नित्यमेव । दुहव कर्मकर्तरीत्येव । अदोहि गौर्गोपेनेत्यत्र तु नित्यम् । उदुम्बरः फलमिति । कालः उदुम्बरं फलं पचतीति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः । ननु द्विकर्मकेषु पचेर प्रामाणिकः पाठ इति ये वदन्ति तेषामयं ग्रन्थः कथं संगच्छत इति चेत् । अत्राहुः — उदुम्बरः फलं पचतीत्यत्र 'कर्मवत्कर्मणा-' इत्यस्याप्राप्तौ दुहिपच्योरित्यनेन कर्मवद्भावो बहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तिरिति । सृजियुज्योः श्यंस्तु । श्यनो नित्त्वमाद्युदा

Loading...

Page Navigation
1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714