Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 630
________________ प्रकरणम् ६३ ] बालमनोरमा तत्त्वबोधिनीसहिता। [६२७ अथ लकारार्थप्रकरणम् ॥ ६४ ॥ २७७३ अभिशावचने लुट् । (३-२-११२) स्मृतिबोधिन्युपपदे भूतानद्यतने धातोलृट् स्यात् । बडोऽपवादः । स्मरसि कृष्ण गोकुले वत्स्यामः । एवं बुध्यसे चेतयसे इत्यादियोगेऽपि । तेषामपि प्रकरणादिवशेन स्मृती वृत्तिसम्भवात् । २७७४ न यदि । (३-२-११३) यद्योगे उक्नं न । अभिजानासि कृष्ण यद्वने प्रभुज्महि । २७७५ विभाषा साकाङ्क्ष । (३-२-११४) उऋविषये लुड् वा स्याद् लक्ष्यलक्षणभावेन साकाङ्क्षश्चेद्धात्वर्थः । स्मरसि कृष्ण प्रकरणे सर्वत्र पच्यते श्रोदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः, न त्वात्नना कति, तथा सति कर्मण्येव लः स्यादिति 'णेरणौ-' इति सूत्रे कैयटे स्पष्टम् । इति श्रीवासुदेव दीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां कर्मकर्तृप्रक्रिया समाप्ता । अथ लकारार्थप्रक्रिया निरूप्यते । अभिज्ञावचने लुट् । अभिज्ञा स्मृतिः, सा उच्यते बोध्यते अनेनेति विपहः, तदाह स्मृतिबोधिन्युपपदे इति । स्मृतिबोधकपदे समीपे प्रयुज्यमाने सतीत्यर्थः। भूते इत्यधिकृतम् । 'अनद्यतने लङ्' इत्यतः अनद्यतने इत्यनुवर्तते, तदाह भूतानद्यतने इति । लङ इति । अनद्यतने लङित्यस्यापवाद इत्यर्थः । स्मरसीति । हे कृष्ण गोकुले अवसामेति यत् तत् स्मरसीत्यर्थः । अत्र वाक्यार्थः कर्म । कृतं गोकुलवासं स्मरसीति यावत् । एवमिति । स्मरसीति पदयोग इव बुध्यसे इत्यादिस्मृतिबोधकपदयोगेऽपि लुडित्यर्थः। ननु बुध्यत्यादेः स्मृतित्वेन रूपेण स्मृत्यर्थकत्वाभावात्कथमिह लडित्यत आह तेषामपीति । पर्यवसानगत्या स्मृतिबोधकत्वात्तद्योगेऽपि लुट् । एतदर्थमेव वचनप्रहणमिति भावः । न यदि । यदीति सप्तमीति मत्वाह यद्योगे इति । उक्तं नेति । अभिज्ञावचने इति लुड् न भवतीत्यर्थः । अभिजानासीति । वने अभुज्महीति यत् तत् सरसीत्यर्थः । विभाषा। उक्तविषये इति। अभिज्ञा अभिज्ञा । भूते इत्यधिक्रियते। 'अनद्यतने लड्' इत्यतः अनयतन इति वर्तते । अभिज्ञा स्मृतिः, सा उच्यते बोध्यतेऽनेनेति विग्रहस्तदाह स्मृतिबोधिनीत्यादि । वत्स्याम इति । अवसामेत्यर्थः । पश्य मृगो धावतीत्यत्र वाक्यार्थरूपमृगकर्तृकधावनमिव स्मरसोत्यत्र गोकुलाधिकरणकास्मत्कर्तृकभूतानद्यतनवासो वाक्यार्थः कर्म । कृष्णेति संबोधनं स्मरणक्रियायां विशेषणम् । तथा च पूर्वोक्तनिवासकर्मकं कृष्णसंबन्धकं स्मरणमिति फलितोऽर्थः । न यदि । लुटः प्रतिषेधे उत्सर्गो लङ् ।

Loading...

Page Navigation
1 ... 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714