Book Title: Laghu Siddhant Kaumudi Part 03
Author(s): Girdhar Sharma, Parmeshwaranand Sharma
Publisher: Motilal Banrassidas Pvt Ltd

View full book text
Previous | Next

Page 627
________________ ६२४ ] सिद्धान्तकौमुदी। [ कर्मकर्तृतिङ्कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चियवदिट् तु स्यादेव । कारिष्यते । उच्छायिष्यते । बूते कथा । अवोचत । भारद्वाजीयाः पठन्ति"णिश्रन्थिग्रन्थिमारमनेपदाकर्मकाणामुपसंख्यानम्' (वा :८५२)। पुच्छमुदस्थति उत्पुच्छयते गौः। अन्तर्भावितण्यर्थतायाम् उत्पुण्छयते गाम् । पुनः कर्तृत्वकारयते इति । स्वयं देवदत्त इति शेषः । करोति देवदत्त , तं प्रेरयति यज्ञदत्त इति एयन्तान्नुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदनस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकतीरे लकारः। कर्मवत्वेऽपि त३, न यगिति भावः । अचीकरतेति । अत्र कर्मवत्त्वेऽपि न चिण, 'णिश्रि-' इति चडेव । उच्छयते दण्ड इति। स्वयमेवेति शेषः दण्डमुच्छ्यति कश्चिदिति मुख्यकर्तरि लकारः । तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकतरि लकारः । कर्मवत्त्वेऽपि न यक्, तव । उदशिश्रियतेति । कमवत्वेऽपि चिणभावाद् 'णिनि-' इति चङ्। ननु कारिष्यते इत्यत्र कथं चिरवदिटौ। एयन्तस्याजन्तस्य उपदेशाभावादित्यत आह चिरावदिट् तु स्यादेवेति । 'स्यसिच्सीयुट्तासिषु-' इत्यत्र हि उपदेशे अजन्तस्येति नार्थः। किंतु उपदेशे योऽच् तदन्तस्येत्यर्थः । तथा च णिजन्तस्योपदेशाभावेऽपि ऐरुपदेशसत्त्वान्न दोष इति भावः । उच्छ्रायिष्यते इति । श्रिअ उपदेशे योऽच् तदन्तत्वाचिरवदिटौ। व्रते कथेति । स्वयमेवति शेषः। कथां ब्रवीति कश्चिदिति मुख्यकर्तृलकारे कथा धर्म, तस्य पुरुषप्रयन्ताविवक्षायां कर्मकर्तरि लकारः। कर्मवत्त्वात् तङ्, न यक् । अवोचतेति । कर्मव. त्त्वेऽपि न चिण । किंतु 'ब्रुवो वचिः' 'श्रस्यतिवक्तिख्यातिभ्योऽ' 'वच उम्' इति भावः । उच्चारणेन शब्देषु प्राकट्यरूपविशेषदर्शनात् कर्मस्थकियत्वं बोध्यम् । णिश्रन्थीति । ण्यन्तस्य श्रन्थः प्रन्थेः ब्रूम आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधो भारद्वाजीयाभिमत इत्यर्थः । अत्र णि इति सामान्यस्य ग्रहएम् । न तु हेतुमरिणच एवं। ततश्च शिउन्तस्यापि न यकविणाविति मत्वाह पुच्छमुदस्यति उत्पुच्छयते गौरिति । 'पुच्छादुदत्त' इति गिड् । नन्वत्र उदसने पुच्छं कर्म । गौमुख्यकी । न तु कर्मकत्री। ततश्च नि यचिणोः प्रसक्तिरित्यत आह अन्तर्भावितण्यर्थतायामिति । उदस्थतीत्यस्य उदासयतीत्यन्त र्भावितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्त इत्यत्र गौः कर्म । तस्य गोरूपकर्मणः प्रेरयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायां कर्मकर्तरि लकार उत्पुच्छयते गौरिति कर्मवद्भाबस्स प्राप्तिरन्तीति भावः। अचीकरतेति। चिणि प्रतिषिद्धे 'णिनि-' इति चङ् । णिश्रन्थीति । ऐः सामान्यप्रहणस्य फलाह पुच्छमुदस्थती

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714