________________
६२४ ] सिद्धान्तकौमुदी। [ कर्मकर्तृतिङ्कारयते । अचीकरत । उच्छ्रयते दण्डः । उदशिश्रियत । चियवदिट् तु स्यादेव । कारिष्यते । उच्छायिष्यते । बूते कथा । अवोचत । भारद्वाजीयाः पठन्ति"णिश्रन्थिग्रन्थिमारमनेपदाकर्मकाणामुपसंख्यानम्' (वा :८५२)। पुच्छमुदस्थति उत्पुच्छयते गौः। अन्तर्भावितण्यर्थतायाम् उत्पुण्छयते गाम् । पुनः कर्तृत्वकारयते इति । स्वयं देवदत्त इति शेषः । करोति देवदत्त , तं प्रेरयति यज्ञदत्त इति एयन्तान्नुख्यकर्तरि लकारः । अत्र ण्यन्तकर्मणो देवदनस्य यज्ञदत्तप्रेरणमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकतीरे लकारः। कर्मवत्वेऽपि त३, न यगिति भावः । अचीकरतेति । अत्र कर्मवत्त्वेऽपि न चिण, 'णिश्रि-' इति चडेव । उच्छयते दण्ड इति। स्वयमेवेति शेषः दण्डमुच्छ्यति कश्चिदिति मुख्यकर्तरि लकारः । तत्र कर्मणो दण्डस्य कर्तृव्यापारमनपेक्ष्य कर्तृत्वविवक्षायां कर्मकतरि लकारः । कर्मवत्त्वेऽपि न यक्, तव । उदशिश्रियतेति । कमवत्वेऽपि चिणभावाद् 'णिनि-' इति चङ्। ननु कारिष्यते इत्यत्र कथं चिरवदिटौ। एयन्तस्याजन्तस्य उपदेशाभावादित्यत आह चिरावदिट् तु स्यादेवेति । 'स्यसिच्सीयुट्तासिषु-' इत्यत्र हि उपदेशे अजन्तस्येति नार्थः। किंतु उपदेशे योऽच् तदन्तस्येत्यर्थः । तथा च णिजन्तस्योपदेशाभावेऽपि ऐरुपदेशसत्त्वान्न दोष इति भावः । उच्छ्रायिष्यते इति । श्रिअ उपदेशे योऽच् तदन्तत्वाचिरवदिटौ। व्रते कथेति । स्वयमेवति शेषः। कथां ब्रवीति कश्चिदिति मुख्यकर्तृलकारे कथा धर्म, तस्य पुरुषप्रयन्ताविवक्षायां कर्मकर्तरि लकारः। कर्मवत्त्वात् तङ्, न यक् । अवोचतेति । कर्मव. त्त्वेऽपि न चिण । किंतु 'ब्रुवो वचिः' 'श्रस्यतिवक्तिख्यातिभ्योऽ' 'वच उम्' इति भावः । उच्चारणेन शब्देषु प्राकट्यरूपविशेषदर्शनात् कर्मस्थकियत्वं बोध्यम् । णिश्रन्थीति । ण्यन्तस्य श्रन्थः प्रन्थेः ब्रूम आत्मनेपदविधावकर्मकस्य च यक्चिणोः प्रतिषेधो भारद्वाजीयाभिमत इत्यर्थः । अत्र णि इति सामान्यस्य ग्रहएम् । न तु हेतुमरिणच एवं। ततश्च शिउन्तस्यापि न यकविणाविति मत्वाह पुच्छमुदस्यति उत्पुच्छयते गौरिति । 'पुच्छादुदत्त' इति गिड् । नन्वत्र उदसने पुच्छं कर्म । गौमुख्यकी । न तु कर्मकत्री। ततश्च नि यचिणोः प्रसक्तिरित्यत आह अन्तर्भावितण्यर्थतायामिति । उदस्थतीत्यस्य उदासयतीत्यन्त
र्भावितण्यर्थताश्रयणे उत्पुच्छयते गां देवदत्त इत्यत्र गौः कर्म । तस्य गोरूपकर्मणः प्रेरयितृपुरुषप्रयत्नानपेक्षया कर्तृत्वविवक्षायां कर्मकर्तरि लकार उत्पुच्छयते गौरिति कर्मवद्भाबस्स प्राप्तिरन्तीति भावः। अचीकरतेति। चिणि प्रतिषिद्धे 'णिनि-' इति चङ् । णिश्रन्थीति । ऐः सामान्यप्रहणस्य फलाह पुच्छमुदस्थती