________________
प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६२३ प्रस्तुते । प्रासाविष्ट, प्रास्नोष्ट । नमते दण्डः । अनंस्त । अन्तर्भावितण्यर्थोऽत्र नमिः । 'यचिणोः प्रतिषेधे हेतुमरिणश्रिमामुपसंख्यानम्' (वा १८८१)। भावः । भाष्ये तु (वकारादिदं सूत्रं नियमार्थमित्युक्तमिति शब्देन्दुशेखरे प्रपञ्चितमेतत् । वृत्त्यनुसारिण इत्यनेन भाष्यविरोधः सूचित इत्यलम् । 'दुहिपच्योबेहुलम्' इति कर्मवत्त्वविधिस्थ दुहिप्रसङ्गाद् 'न दुहस्नुनमाम्-' इति सूत्रमुपन्य स्तं प्राक् । इदानीं सिंहावलोकनन्यायेन स्नुनमोरुदाहतुं पुनः सूत्रमुपन्यस्यति न दुहस्नुनमां यकचिणाविति । तत्र स्नुधातोरुदाहरति प्रस्तुते इति । स्नुधातुः क्षीरप्रस. वणविषयोत्कराठीकरणे वर्तते । वत्सो गो प्रनौतीति मुख्यकर्तरि लकारे वत्सो गां क्षीरप्रस्रवणविषये उत्कण्ठयतीत्यर्थः । अन्तर्भावितण्यर्थोऽत्र स्नुधातुः। अत्र गौः कर्म। उत्कण्ठनव्यापारस्तु कर्तृभूतवत्सनिष्ठः। उत्कण्ठा तु गोरूपकर्मनिष्ठा । गोः कर्मणः कर्तृत्वविवक्षायां तु प्रस्नुते गौः, खयमेव क्षीरप्रस्रवणविषये उत्कण्ठावती त्यर्थः । तत्र उत्कण्ठा पूर्व कर्मगता । संप्रति तु कर्तृगता। उत्कण्ठाकृतं च वैलक्षण्यं प्रस्रवणं दृश्यत एव । ततश्च कर्मस्थक्रियत्वात् कर्मवत्त्वेन यकि प्राप्ते अनेन निषेधः। प्रास्नाविष्टेति । अत्र कर्मवत्त्वात् प्राप्तश्चिण् न । किंतु चिरवदिटौ पक्षे स्तः । चिरावा देडभावे तु 'स्नुक्रमो:-' इति नियमावलादिलक्षण इरान, तदाह प्रास्नोष्टेति । णम उदाहरति नमते दण्ड इति । नमति दण्डं कश्चित् । नमयतीत्यर्थः। कर्मणः कर्तृत्वविवक्षायां तु नमते दण्डः। अत्र कर्मवत्त्वेऽपि न यक् । अनंस्तेति । अत्र कर्मवत्त्वेऽपि न चिण । ननु णमधातोः प्रह्वीभावार्थकस्याकर्मकत्वात् कर्मवत्त्वाप्रसक्तर्यचिणोर्न प्रसक्किरित्यत आह अन्तर्भावितण्यर्थोऽत्र नमिरिति । धातूनामनेकार्थकत्वादिति भावः । यचिणोरिति । 'न दुहस्नुनमाम्-' इति यचिणोः प्रतिषेधसत्रे दुहस्नुनमां हेतुमरिणश्रिामिति च वाच्यमित्यर्थः । गोनिष्ठा । स्नु प्रस्रवरं] इत्यत्रापि करणे ल्युट् । प्रस्नूयतेऽनेनेति प्रनवणं सा चोत्कण्ठा । -स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी' इति प्रयोगे उपस्नुता उत्कण्ठितेत्यर्थः। वत्सो गां प्रनौति उत्कण्ठयति । अन्तर्भावितण्यर्थोऽत्र नौतिः । गोः कर्तृत्वविवक्षायां प्रस्नुते गौरिति। प्रास्नाविष्टेति । चिण्वदिट् । न च चिणि निषिद्ध चिरवदिडपि न स्यादिति शङ्कयम् , चिरावदित्यनेन हि चिणीव कार्यमतिदिश्यते । न च चिण नेत्युक्त्या सोऽतिदेशो निषेधुं शक्यते येन चिण्वदिटो निषेधः स्यात् । प्रास्त्रोष्टेति । 'स्नुकमोरनात्मनेपदनिमित्ते' इति नियमादलादिलक्षण इट् न । नमते दण्ड इति । इह नमितानमितयोर्विशेषदर्शनादुद्देशानुसेधाच्च कर्मस्थकियत्वमस्ति कर्मस्थांशस्य नमनस्य उद्देश्यता न तु तदनुकूलव्यापारस्यैति