________________
प्रकरणम् ६३ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ६१६
स्यात्कर्मकर्तरि तशब्दे परे । अकारि, अकृत । २७६६ दुहश्च । ( ३-१-६३ ) प्रदोहि । पते क्सः, 'लुग्वा -' ( सू २३६५ ) इति पचे लुक् । अदुग्ध, अधुक्षत । उदुम्बरः फलं पष्यते । 'सृजियुज्योः श्यंस्तु' ( वा १८७७ ) । इत्युक्तेः । अचः कर्मकर्तरि । 'च्लेः सिच्' इत्यतः च्लेरिति 'चिया ते पदः ' इत्यतः चिरते इति, 'दीपजन -' इत्यतः अन्यतरस्यामिति चानुवर्तते । 'धातोरेकाचः -' इत्यतोऽनुवृत्तस्य धातुग्रहणस्य श्रचा विशेषितत्वात्तदन्तविधिः, तदाह अजन्तादित्यादिना । अकारीति । कटः स्वयमेवेति शेषः कर्मकर्तरि लुङ् । च्लेश्चिण् । वृद्धिः । रपरत्वम् । 'चिणो लुक् इति तशब्दस्य लुक् । श्रकृतेति । चिणभावपचे 'हस्वादङ्गात्' इति सिचो लोपः । दुहश्च । श्रच इतिवर्ज पूर्वसूत्रं तत्रानुवृत्तं यत्तत्सर्वमिद्दानुवर्तते । कर्मकर्तरि तशब्दे परे दुहेश्चिरावा स्यादित्यर्थः स्पष्ट इति न व्याख्यातम् । अनुवृत्तिसौकर्यार्थमेव पूर्वसूत्रं प्रकृतदुहधातावनुपयुक्तमप्युपन्यस्तम् ।
दोहीति । दुहेः कर्मकर्तरि लुङ् । स्वयमेव गौः पय इति शेषः । चिण्पत्ते लघूपधगुणः । चिणभावपक्षे श्राह पक्षे क्स इति । 'शल इगुपधात् -' इत्यनेनेति भावः । लुग्वेति । 'लुग्वा दुहदिहलिहगुहाम्-' इति क्सस्य पाक्षिको लुगित्यर्थः । श्रथ दुहिपच्योरित्यत्र पचेरुदाहरति उदुम्बरः फलं पच्यत इति । उदुम्बरवृक्षं फलं पचति कालविशेष इत्यत्र द्विकर्मकः पचिः । इह तु उदुम्बरो वृक्षः स्वयमेव कालविशेषमनपेक्ष्य फलं पक्काश्रयं करोतीत्यर्थः । श्रत्र उदुम्बरस्य गौणकर्मणः कर्तृत्वेन विवक्षायां फलेन प्रधानकर्मणा सकर्मकत्वात् 'सकर्मकाणां प्रतिषेधः' इति कर्मवत्त्वस्य प्रतिषेधे प्राप्ते 'दुहिपच्यो:-' इति कर्मवत्त्वस्य प्रतिप्रसवाद्यगादिकमिति भावः । वस्तुतस्तु भाष्ये द्विकर्मकेषु पचेरपरिगणनान द्विकर्मकत्वमिति कारकाधिकारे प्रपञ्चितमस्माभिः । तथा च कर्मकर्तरि फलं पच्यते इत्यत्र फलस्यैव कर्मतया तस्य कर्तृत्वविवक्षायां पचेरकर्मकत्वात् 'सकर्मकाणाम् -' इति प्रतिषेधस्याप्रसक्तेः प्रतिप्रसवविधिरयं व्यर्थ इति यद्यपि । तथाप्यत्र मते उदुम्बरः फलं पचतीत्यत्र कर्तृ
काष्ठम् । अत्र नित्यं चिण् । कर्मकर्तरि किम् अकारि घटः कुलालेन । अत्रापि नित्यमेव । दुहव कर्मकर्तरीत्येव । अदोहि गौर्गोपेनेत्यत्र तु नित्यम् । उदुम्बरः फलमिति । कालः उदुम्बरं फलं पचतीति स्थिते गौणकर्मण उदुम्बरस्य कर्तृत्वविवक्षायामिह कर्मवद्भावः । ननु द्विकर्मकेषु पचेर प्रामाणिकः पाठ इति ये वदन्ति तेषामयं ग्रन्थः कथं संगच्छत इति चेत् । अत्राहुः — उदुम्बरः फलं पचतीत्यत्र 'कर्मवत्कर्मणा-' इत्यस्याप्राप्तौ दुहिपच्योरित्यनेन कर्मवद्भावो बहुलं विधीयते सृजियुज्योरिवेति न काप्यनुपपत्तिरिति । सृजियुज्योः श्यंस्तु । श्यनो नित्त्वमाद्युदा