________________
६१८] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्'दुहिपच्योर्बहुलं सकर्मकयोरिति वाच्यम्' (वा १८७६) । २७६७ . न दुहस्नुनमां यक्चिणौ । (३-१-८६) एषां कर्मकर्तरि यचियो न स्तः । दुहेरनेन यक एव निषेधः, चिण् तु विकल्पिज्यते । शप् , लुक् । गौः पयो दुग्धे । २७६८ अचः कर्मकर्तरि । (३-१-६२) अजन्ताग्लेश्चिगवा स्पृशतः, अन्योऽन्यं संगृह्णीतः इत्येवोदाहृतमिति शब्देन्दुशेखरे स्पष्टम् । दुहिपच्योरिति । कर्मवत्त्वमिति शेषः। अनयोईिकर्मकत्वादेकस्य कर्मणः कर्तृत्ववि. वक्षायामपि अन्यकर्मणा सकर्मकत्वात्पूर्ववार्तिकेन कर्मवत्त्वनिषेधे प्राप्ते प्रतिप्रसवोऽयम् । न दुह । दुह स्नु नम् एषो द्वन्द्वः । कर्मकर्तरीति । एतत्तु नानुवृत्तिलभ्यम् , पूर्वत्रानुपलम्भात् । किंतु 'कर्मवकर्मणा तुल्यक्रियः' इति समभिव्याहारलभ्यमेव । 'अचः कर्मकर्तरि' इत्यतो मण्डूकप्लुत्या तदनुवृत्तिवी । दुहेरनेनेति । 'न दुहस्नुनमाम्-' इत्यनेन दुहेः कर्मकर्तरि यक एव निषेधः। चिरातु 'दुहश्च' इति वक्ष्यमाणसूत्रेण विकल्पितो वक्ष्यते इत्यर्थः । कर्मकर्तरि तशब्दे परे दुहेश्चिरवेति तदर्थः । चिण्तु विकल्पेनेष्यते इति कचित्पाठः। दुग्धे इत्यत्र प्रकियां दर्शयति शप, लुगिति । दुहेः कर्मकर्तरि यकि निषिद्धे शप् प्रवर्तते । तस्य 'अदिप्रमृतिभ्यः-' इति लुगित्यर्थः । गौः पयो दुग्धे इति । गौः स्वयमेव पय उत्सृजतीत्यर्थः । कर्मकर्तृभूतायां गवि लट् । स्वरितत्त्वेऽपि भावकर्मणोः इत्यात्मनेपदमेव । 'न दुह-' इति न यक् । गां पयो दुग्धे इति तु नोदाहृतम् , 'गौणे कर्मणि दुह्यादेादयो मताः' शाखां हस्ताभ्यामवनमयत्यपि भूमिष्ठे पुरुष आरोहतीत्यप्रयोगात् । अत एव हि 'यद्धितुपरं छन्दसि' इत्यत्र भाष्यं रुहिर्गत्यर्थ इति । अत एव चारोहन्ति हस्तिनं हस्तिपकास्तानारोहयति महामात्र इत्यादिप्रयोगेष्वणो कर्तुएँ कर्मत्वं संगच्छते । पचिभिद्योस्तु विक्लित्तिर्द्विधाभवनरूपो विशेषः कर्मणि दृष्टस्तदुद्देशेनैव कारकव्यापार इति कर्मस्थक्रियत्वात्पच्यते ओदनः, भिद्यते काष्ठमित्यत्र कर्मवद्भावो भवत्येव । अजा प्राम नयतीत्यत्रापि कर्मस्थांशस्य संयोगस्योद्देश्यता न तु व्यापारांशस्येति कर्मवद्भावे प्राप्ते प्रतिषेधोऽयमावश्यक इति दिक् । दुहिपच्योरिति । द्विकर्मकत्वादनयोरेकस्य कर्मणः कर्तृत्वविवक्षायामपि सकर्मकत्वानिषेधे प्राप्तेऽयमारम्भः। गौः पयो दुग्धे इति । अत्र कर्मवद्भावेनात्मनेपदं नित्यं 'गौणे कर्मणि दुह्यादेः' इत्युक्तत्वाद् मुख्यकर्मणः कर्तृत्वविवक्षायां पयो गां दुग्धे इति नोदाहृतमित्याहुः । एवं च 'प्रधान नोकृष्वहाम्' इत्युक्तत्वात् तुल्यन्यायेन न्यादीनां मुख्यकर्मण एव कर्तृत्वविवक्षेति फलितम् । अचः कर्म । 'चिण ते पदः' इत्यतश्विरतशब्दावनुवर्तेते, 'दीपजन-' इत्यतोऽन्यतरस्यामिति च तदाह अजन्तादित्यादि । अचः किम् , अभेदि