________________
प्रकरणम् ६३. बालमनोरमा तत्वबोधिनीसहिता १७ प्रविणेधो दाग्यः ( वा १८७३)। अन्योन्य स्मातः। मजा प्रामं नयति । स्यात् । तत्र हि स्पृशिः संयोगानुकूलव्यापारार्थकः । उभावपि कर्तारी कर्मभूती च। स्पर्शनक्रियायः एकत्देऽपि श्राश्रयभेदात्तद्भेदमाश्रित्य यज्ञदत्तनिष्ठां स्पर्शनक्रियां प्रति देवदत्तस्य रमत्वम् । एवं देवदत्तनिष्ठां स्पर्शनक्रियां प्रति यज्ञदत्तस्य कर्मत्वम् । एनं कर्तृत्वमप्युभय राम् । एवं च उभयोः कर्तृत्वकर्मत्वसत्त्वादेकस्मिन् कर्तरि कर्मणि वा या स्पृशिक्रिया सेवेतरस्मिन् कर्तरि कर्मणि वा वर्तते इति कर्मवत्त्वं स्यात् , आश्रयनिबन्धनं भेदमा श्रत्य तुल्यक्रियत्वोपपत्तेः । स्पृष्टास्पृष्टयोरन्योन्यसंयोगकृतहर्षादितदभावदर्शनाचत्यत आह सकर्मकाणां प्रतिषेध इति । एककर्मकाणां छिदिभिदिप्रभृतीनां कर्मणः कर्तृत्वविवनया अकर्मकाणां कर्तुः कर्मवत्त्वमुक्तम् । ये तु द्विकर्मकाः कर्मणः कर्तृत्वविवक्षायामपि सकर्मका धातवः तेषां धातूनां कर्मकर्तुः कर्मवत्वप्रतिषेधो : कव्य इत्यर्थः । अन्योन्यं स्पृशत इति । कर्मदत्त्वे तु यकि तछि च स्पृश्यते इति स्यादिति भावः ! 'सकर्मकाणां प्रतिषेधः-' इत्यस्य उदाहरणान्तरमाह अजा ग्राम नयतीति । अजा ग्राम स्वयमेव प्राप्नोतीत्यर्थः । अत्र नयनं प्रत्यजायाः कर्मणः कर्तृत्वविवक्षायामपि प्राममादाय सकर्मकत्वान्न कर्मवत्वमिति भावः । वस्तुतस्तु गते अगते च प्रामे बैलक्षण्याभावादेवात्र कर्मवत्त्वस्याप्राप्तिरिति नेदसस्य वार्तिकस्मोदाहरणम् । अत एव भाष्ये अन्योन्यमाश्लिष्यतः, अन्योऽन्यं इमो गर्श स्पृशत इत्यत्र यथा । एवं च कर्मस्थक्रियायाः कर्तृस्थत्वाभावात्कर्मवद्भावो न प्राप्नोति । न च संयोगस्य द्विष्ठत्वात्कर्मस्थफलस्य कर्तृस्थत्वाचास्त्येवेति शङ्कयम् , तत्तनिरूपितसंयोगग्य भिन्नत्वात् । अन्यथा फलव्यापारयोरेकाश्रयत्वे सकर्मकत्वमेव न लभ्येत । किं च रुहिगम्योः कर्तस्थक्रियत्वादारोहति हस्ती, गच्छति प्राम इत्यत्र कर्मवद्भावो नेति भाष्यकैयटादिसंमतम् । तथा च संयोगरूपफलस्य सर्वत्र तुल्यतया रुहिगमिभ्यां स्पृवैषम्यं दुरुपपादमिति नात्र कर्मवत्त्वप्रसक्तिरित्युदाहरणान्तरमाह अजा ग्रामं नयनीति । इह प्रतिषेधाभावे यक् स्यात् क्रियाफलस्याकर्तृगामिवेऽप्यात्मनेपदं स्य दिति भावः । नन्विहापि कर्मणि क्रियाकृतो विशेषो नोपलभ्यत इति कर्मस्थक्रियत्वं दुरुपपादमिति चेत् । अत्राहुः-क्रियाकृतविशेषोपलम्भानुपलम्भवदुद्देश्यतापि लियामिका । यत्र कर्मस्थांशस्योद्देश्यता सा कर्मस्थक्रिया, यत्र तु व्यापारांशस्य सा कर्तृस्थेति। तथा हि-दर्शनारोहणाभ्यां विषये न्यग्भूते च विशेषानुपलम्भात्कर्तृस्थता । उद्देशानुरोधाच अहं पश्येयमित्युद्देशो. न त्वयं विषयो भव. त्विति । एवमहमुपरि गच्छेयमित्युद्देशो न तु हस्तिनो न्यग्भावो भवविति । ऊर्ध्वदेशसंयोगानुकूलव्यापार विशेष उपरि गमनं तदेव रुहेरर्थो न तु न्यग्भावमात्रम् । वृक्षस्य