________________
६१६] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्एतेनानुम्यवस्वमानेऽथें इति ब्यास्यातम् । कर्तृवत्वेन यगभावाच्छयनि केत मोहोपे च रूपसिद्धः । ताच्छील्यादावयं चानश् , न स्वात्मनेपदम् । सकर्मकाणां कारिता, तदभावे तु कर्ता इति सिद्धवत्कृत्याह करिष्यते घट इत्यादीति । विण्वदिट्पने कारिष्यते इति रूपम् । तदभावपक्षे तु 'ऋद्धनोः स्ये' इति इट, करिष्यते । सीयुटश्चिरवदिटि कारिषीष्ट, तदमावे तु ऋषीष्ट । लुडि अकारि अकृत। नैतदिति । कर्मवत्त्वं न सिध्येदित्यर्थः । यतते इति क्त्सर्मकत्वमेव न स्यादित्यपि बोध्यम् । एतेनेति । ज्ञानस्य कर्तृस्थत्वव्युत्पादनेनेत्यर्थः । अनुव्यवस्यमानेऽर्थे इति । अथै स्वयमेव निश्चयविषयतां संपयमाने इत्यर्थः । व्याख्यातमिति । समवितमित्यर्थः । कयं समर्थितमित्यत आह कर्वस्थत्वेन यगभावादिति । अनुव्य. वसायो निश्चयः, तत्र कर्मकर्ता अर्थः, स न कर्मस्थक्रियः, अर्थे अनुव्यवसायकृतवैलक्ष. ण्याभावात् । किंतु कर्तृस्थकिय एव, अनुव्यवसायकर्तरि देवदत्ते हर्षादिदर्शनात् । ततश्च कर्मवत्त्वाभावान यक् । यकि तु कित्वाद् 'घुमास्थागापाजहातिसाम्-' इति ईत्वे अनुव्यवसीयमान इति स्यादित्यर्थः। ननु यगभावे कथं यकारश्रवणमित्यत आह श्यनीति । 'षो अन्तकर्मणि' इति धातोरनुव्यवपूर्वादुपसर्गवशेन निश्चयवृत्तः आने कृते श्यनि 'श्रोत: श्यनि' इत्योकारलोपे अनुव्यवस्यमान इति रूपसिद्धरित्यर्थः । ननु कर्मवत्त्वाभावे 'भावकर्मणोः' इत्यात्मनेपदाभावात् कथमिह लटः , शानच् । तस्यात्मनेपदत्वादित्यत आह ताच्छील्यावाविति । 'ताच्छील्यवयोवचनशक्तिषु चानश' इत्यनेन चानशित्यर्थः । तस्य च लादेशत्वाभावेन प्रात्मनेपद स्वाभावात् कर्मवत्त्वाभावेऽपि कर्मकर्तरि प्रवृत्तिनिर्बाधा, तदाह न त्वात्मनेपदमिति । ननु अन्योन्यं स्पृशतः स्वयमेव यज्ञदत्तदेवदत्तावित्यत्रापि कर्मवत्त्वाद्यादि स्कर्मणा-' इति कर्मवत्त्वं न सिध्येदित्यर्थः । एतेन पचति पाकं करोतीति विवरणादाख्यातस्य यत्ने शक्किरिति नैयायिकोक्तिः परास्ता। करोतेयनार्थत्वे तु यतते इतिवत्सकर्मकतापि न स्यादिति । एतेनेति । ज्ञानस्य कर्तृस्थत्वाभ्युपगमेनेत्यर्थः । यगमावादिति । सति तु यक्यनुव्यवसीयमान इति स्यादिति भावः । अोलोप इति । 'श्रोतः श्यनि' इत्यनेन । ननु कर्मवत्त्वाभावे कथमिह शानजित्यत आह ताच्छील्यादाविति । न त्विति । शानच् न भवतीत्यर्थः । देवदत्तयज्ञदत्ताव. न्योन्यं स्पृशत इत्यत्र तयोरेव कर्मत्वं कर्तृत्वं चास्तीति कर्मस्थक्रियायाः कर्तृस्थत्वात्कर्मवद्भावप्राप्तिमाशङ्कयाह सकर्मकाणामिति । न चात्र देवदत्तो यज्ञदत्तं स्पृशति यज्ञदत्तस्तु देवदत्तमिति कियामेदोऽवश्यमाश्रयितव्यः । तथा च खनिष्ठां कियां प्रति कर्तृत्वम् इतरक्रिया प्रति तु कर्मत्वं भवति । अन्यथा द्वयोरपि कर्तृत्वमेव स्यात्,