________________
प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६१५
यत्र कर्मणि क्रियाकृतो विशेषो दृश्यते यथा पक्केषु तयडुलेषु यथा वा छिन्नेषु काष्ठेषु, तत्र कर्मस्था क्रिया, नेतरत्र । न हि पक्कापक्कतण्डुलेष्विव गतागतग्रामेषु वैलक्षण्यमुपलभ्यते । करोतिरुत्पादनार्थः । उत्पत्तिश्च कर्मस्था । तेन करिष्येते घट इत्यादि । यत्त्रार्थस् तु नैतत्सिध्येत्, ज्ञानेच्छादिवद्यत्त्रस्य कर्तृस्थत्वात् । तस्तस्मै नमोऽस्तु गुरवे सदा ।' इत्युत्तरार्धम् । गुरुकृपालेशादेव श्रमं विना स्वयमेव शास्त्रार्थः श्रधिगच्छति निश्वयविषयो भवति, स्मृतिविषयो भवति, श्रद्धाविषयो भवतीत्यर्थः । अत्र कर्मकर्तुः ग्रामादेः कर्तृस्थक्रियावत्त्वेन कर्मस्थक्रियावत्त्वाभावाद् न कर्मवत्त्वम् । अतो न कर्मकार्यं यगादि, किंतु कर्तृकार्यं शबाद्येवेति भावः । ननु कर्मकर्तुः ग्रामादेः प्राप्त्याद्याश्रयत्वेन कर्मस्थक्रियत्वमस्त्येवेत्यत आह यत्रेति । यत्र क्रियाकृतो विशेषो वैलक्षण्यं दृश्यते प्रत्यक्षमुपलभ्यते, तत्र कर्मणि विद्यमाना क्रिया कर्मस्थकियेत्युच्यते इत्यन्वयः । तदुदाहृत्य दर्शयति यथा पक्वेषु तण्डुलेष्विति । तण्डुलावस्थापेक्षया विक्लित्तिकृतो विशेषों दृश्यते इति शेषः । अन्यत्रापि क्रियाकृतं वैलक्षण्यमुदाहृत्य दर्शयति यथा वा छिन्नेषु काष्ठेष्विति । श्रच्छि नापेक्षया वैलक्षण्यं दृश्यते इति शेषः । गच्छति ग्राम इत्यादौ तु नैवमित्याह न हीति । ग्रामेष्विति । उपलक्षणमिदम् पक्कापक्कतण्डुलेषु यथाक्रियाकृतं वैलक्षरायमुपलभ्यते तथा गतागतप्रामे श्रारूढानारूढ हस्तिनि श्रधिगतानधिगते स्मृतास्मृते श्रद्धिताश्रद्धिते च शास्त्रार्थे क्रियाकृतवैलक्षण्यं न दृश्यते इत्यर्थः, ग्रामगमनादौ कर्तर्येव श्रमादिवैलक्षण्यदर्शनादिति भावः । ननु ज्ञानेच्छयोरिव यत्नस्यापि कर्तृस्थत्वात् तद्वाचिनः कृञोऽपि कर्ता न कर्मवत्स्यात् । ततश्च क्रियते घटः स्वयमेवेति यगादिः न सिध्येदित्याशङ्क्य कृञो न यत्नार्थत्वमित्याह करोतिरुत्पादनार्थ इति । उत्पत्त्यनुकूलव्यापारार्थक इत्यर्थः । एतच्च भूवादिसूत्रे भाष्ये स्पष्टम् । करोतेरुत्पादनार्थकत्वे तु कर्मस्थक्रियत्वं तत्कर्तुरुपपादयति उत्पत्तिश्च कर्मस्थति । उत्पन्ने अनुत्पन्ने च वैलक्षण्यस्य प्रत्यक्षत्वादिति भावः । तेनेति । कृञः कर्तुः कर्मस्थक्रियत्वेनेत्यर्थः। तथा च क्रियते घटः स्वयमेवेत्यत्र यक् तासि तु चिण्वदिट्पक्षे
•
•
ज्ञातव्या इत्यत आह् यत्र कर्मणीति । ग्रामेष्विति । श्रारूढानारूढहस्तिषु अधिगतानधिगतशास्त्रार्थेष्वित्यादावपि वैलक्षण्यं नोपलभ्यत इति बोध्यम् । कारि ष्यते इति । 'स्यसिच्सीयुट् -' इति वैकल्पिकश्चिण्वदिट् । पक्षे 'ऋद्धनोः स्ये' इतीट् करिष्यते । एवं लुङि अकारिष्यत करिष्यत । सिचश्चिण्वदिटि कारिष्ट । पक्षे कृत । सीयुट चिरावदिटि करिषीष्ट । पक्षे कृषीष्ट । तासि तु कारिता कर्ता । यक्चिणोस्तु क्रियते घटः स्वयमेव । श्रकारीत्यादि । नैतत्सिध्येदिति । 'कर्मव१ - ' कारिष्यते' इति क्वचित् पाठः ।