________________
६१४ ] सिद्धान्तकौमुदी। [कर्मकर्तृतिङ्भेदमाश्रित्य व्यवहारः। कर्मणा इति किम्-करणाधिकरणाभ्यां तुल्यक्रिये पूर्वोक्त साध्वसिरित्यादौ मा भूत् । किं च कर्तृस्थक्रियेभ्यो मा भूत् । गच्छति ग्रामः । आरोहति हस्ती । 'अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति वा ।' तयोमेंदः स एव उपाधिः निमित्तं यस्य तथाविधं कर्मत्वकर्तृत्वसमानाधिकरणकियाभेदमाश्रित्य तुल्यत्वव्यवहार इत्यर्थः । वास्तवभेदाभावेऽपि औपाधिकभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्मकर्तुरिति भावः। करणाधिकरणाभ्यामिति । असिना छिनत्ति स्थाल्यां पचतीत्यत्र करणाधिकरणयोर्यो व्यापारः स एव असिश्छिनत्ति स्थाली पचतीत्यत्र कर्तस्थ इति तत्रापि कर्मवत्त्वं स्यात् । तन्निवृत्त्यर्थ कर्मणेति पदमित्यर्थः । ननु 'कर्मवत्कर्मणा-' इत्यत्र 'धातोरेकाचः' इत्यतो धातोरित्यनुवर्तते। धातोर्वाच्यया क्रियया तुल्यक्रिय इत्यर्थः । करणत्वाद्यवस्थायां वस्तुतः सन्नपि असिस्थाल्योापारो न धातूपात्त इति नोक्तदोष इत्यस्वरसादाह किं चेति । गच्छति ग्राम इति । मार्गस्य अविषमनिष्कण्टकतया प्रत्यासन्नतया च श्रमं विना प्राप्त्याश्रयो भवतीत्यर्थः । आरोहति हस्तीति । अङकुशाघातादिहस्तिपकव्यापारं विना स्वयमेव न्यग्मवन्न् श्रारोहणाश्रयो भवतीत्यर्थः । अधिगच्छति शास्त्रार्थः । स्मरति श्रद्दधाति वेति । पूर्वार्धमिदम् । 'यत्कृपालेशकर्तृस्थत्वात् । तथा च सूत्रमिदमसमञ्जसमिति भावः । वास्तविकभेदाभावेऽप्यौपाधिकभेदोऽस्तीत्याह कर्मत्वेति । कर्मत्वकर्तृत्वावस्थयोदस्तद्भेदौपाधिकमवस्थाभेदसमानाधिकरणं क्रियाभेदमाश्रित्येत्यर्थः । एवं चावस्थाभेदेन क्रियाभेदात्कर्मस्थक्रियातुल्यक्रियत्वं कर्तुरस्तीति भावः। करणाधिकरणाभ्यामिति । तुल्यक्रियः कर्तेत्येतावत्युच्यमाने असिना छिनत्ति स्थाल्यां पचतीत्यादौ करणाधिकरणयोर्यो व्यापारः स एवेदानीमसिश्छिनत्ति स्थाली पचतीत्यादौ कर्तृस्थ इत्यतिप्रसङ्गः स्यात् , तन्माभूदित्यर्थः । न च कर्मत्वावस्थायां विक्लित्यादिरिव करणत्वाद्यवस्थायामपि असिः स्थाल्यो.
यापारो वस्तुतः समपि धातुना नोपात्त इति कथमतिप्रसङ्ग इति वाच्यम् , सादृश्यप्रतियोगिक्रियाया धातूपात्तत्वेनाविशषितत्वात् । न ह्येतस्मिन्सूत्रे धातूपात्तक्रियाया तुल्यक्रिय इत्युक्तमस्ति येनातिप्रसङ्गो न भवेत् । ननु तुल्यक्रियः कर्ता कर्मवद्भवतीत्यक्त केनेत्याकाङ्क्षायामनेककारकोपस्थितावपि कर्मवदिति प्रत्यासत्त्या कर्मणेति लभ्यत एवेत्यत आह किं चेति । अधिगच्छतीत्यादिश्लोकस्योत्तराधं तु 'यत्कृपालेशतस्तस्मै नमोऽस्तु गुरवे सदा । ननु फलं व्यापारश्च धात्वर्थः, स एव क्रियाशब्दवाच्यः, तत्र व्यापाराश्रयः कर्ता, फलाश्रयस्तु कमे । एवं च पचिभिदिप्रमृतीनां गमिरुहिप्रमृ. तीनां च सकर्मकरवे फलस्य कर्मनिष्ठत्वे च तुल्ये कर्तृस्थभावका गम्यादय इति कथं
१ 'वशतः' इति कचित् पाठः।