________________
प्रकरणम् ६३ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६१३ ननु पनि भिटोः कर्म था किया विक्रिन्तिधाभवनं च। सैवेदानी कर्तृस्था न तु रुतुल्या । सत्य, कर्मस्वकर्तृत्वावस्थाभेदोपाधिकं तत्समानाधिकरण क्रियाया कृत्यक्तखलाः प्रत्ययः कारण विहिताः कर्मकर्तरि न भवन्ति, तस्य लकारवाच्य. स्वाभावेन कर्मवत्त्वष्य नत्राप्रवृत्तेरित्यर्थः । एतच्च भाष्ये स्पष्टम् । ननु 'सिनोतेस. कर्मकर्तृकस्य' इति निष्पनत्ववार्तिके सिनो प्रासः स्वयमेवेति भाष्ये कथमुदाहृतम् । क्तप्रत्ययस्य कर्मकर्त नावादिति चेद् उच्यते, अत एव भाष्याद् 'निष्ठा' इति सूत्रविहितकर्मार्थककर ययस्यैव कर्मकर्तर्यभाव इति विज्ञायते । सिनो ग्रासः स्वयमेवेत्यत्र तु गत्यकर्मवेत्यादिना कर्तरि विहितः क्तप्रत्ययः कर्मकर्तरि भवत्येवेति शब्देन्दुशेखरे विस्तरः । मेत्तव्यं कुसूलेनेति । पुरुषप्रयत्नमनपेक्ष्य कुसूलकर्तृका भिदिक्रियेत्यर्थः । शङ्कते नन्विति । इदानीमिति । कर्मणः कर्तृत्वविवक्षादशायामित्यर्थः । स तु तत्तल्येति । दुल्यत्वस्य भेदघटितत्वादिति भावः । अर्धाङ्गीकारेण परिहरति सत्यमिति । विल्लित्तिद्धिधाभवनं च कर्मस्थमेव संप्रति कर्तृस्थमिति युक्तम् । तथापि तयोस्तुल्यत्वाभावस्तु नेत्यर्थः । कर्मत्वेति । कर्मत्वकर्तृत्वे ये अवस्थे धर्मविशेषौ नात्कृत्यादीनां प्रसक्तिनास्ति, उक्लार्थानामप्रयोगात् । लविधेः पूर्व तु सुतरां नास्ति, लकारोपस्थाप्यकर्तुरभावन कर्मवत्त्वाभावादिति भावः । अत्रेदं बोध्यम्-कृत्यक्तखलर्था इत्यत्र प्रहणं त्यक्तुनुचितम् तस्य कर्मकर्तरि इष्टत्वात् , भिन्नः कुसूलः स्वयमेवेति । वक्ष्यति च स्वयमपि 'सिनोतेसिकर्मकर्तृकस्य' इति वार्तिके सिनो ग्रासः स्वयमेवेति । ननु 'गत्यर्थाकर्मक-' इत्यत्राविवक्षितकर्माणोऽकर्मका इति न गृह्यते, दत्तवान् पक्कवान् इत्यर्थे दत्तः पक इत्यापत्तेरिति चेत् । अत्राहुः–'सिनोतेसिकर्मकर्तृकस्य' इति निष्ठातकारस्य नकारविधानसामर्थ्यादविवक्षितकर्माणोऽपि क्वचिद् गृह्यन्ते। अन्यथा निष्ठातकारस्तत्र न लभ्येत, तेन सिनो प्रासः स्वयमेव, भिन्नः कुसूलः स्ववमेवेत्यादि सङ्गच्छते इति । अत्र केचिद्वदन्ति-लकारवाच्यस्यैव कर्तुः कर्मवत्त्वे 'कर्मवकर्मणा-' इत्यत्र वद्ग्रहणं व्यर्थम् । न च कर्तुः कर्मसंज्ञायां भावे लकारो न स्यादित्युक्तमिति वाच्यम् , कर्मणः कर्तृत्वविवक्षायां धातुरकर्मक इत्यकर्मकात्कर्तरीव भावे लकारस्य निर्बाधत्वात् । लकारवाच्यस्य कर्मसंज्ञायामपि केवलकर्तुस्तदनभ्युपगमात् । न हि भावे लकारः कर्तारं वक्रि । न च वत्करणाभावे कर्तुः कर्मसज्ञायां कर्तृव्यपदेशाभावाद् नमते दण्ड इत्यत्र 'न दुहस्नुनमाम्-' इति यको निषेधेऽपि शब् न स्याद्वस्करणे कृते तु कर्तृकार्यमपि स्यादिति वाच्यम् , एकसंज्ञाधिकारादन्यत्र संज्ञाद्वयसमावेशादिष्टसिद्धेरिति । न तु तत्तुल्यति । तुल्यत्वं हि सादृश्यम् , तच्च भेदनिबन्ध. नम् । न च प्रकृते भेदोऽस्ति । कर्मणः कर्तृत्वविवक्षायां कर्मस्थफलरूपक्रियाया एव