________________
... सिद्धान्तकौमुदी। [कर्मकदृतिङ्अपाचि । अमेदि । ननु भावे प्रकारे कतद्वितीया स्वादस्मादविदेशादिति चेत्र, लकारवाच्य एव हि कर्ता कर्मवत्, 'विल्याशिष्यई' (सू ३४३४) इति द्विखकारकाल्स इत्यनुवृत्तेः, भावे प्रत्यये च कर्तुकारेणानुपस्थितेः । प्रत एवं कृषक्तखखाः कर्मकर्तरि न भवन्ति, किं तु भाव एव, भेत्तव्यं कुसूलेन । स्युरिति भावः । कर्तुरिति । कर्मणः कर्तृत्वविवक्षायां कर्तरि लकारे सति तदादेशतिम कर्तुरभिहितत्वादित्यर्थः । पच्यते प्रोदन इति। फूत्कारादिपुरुषश्रमातिशयविशेषं विना विक्तित्याश्रयो भवतीत्यर्थः । भिद्यते काष्ठमिति । कुठारादिदृढाघातं पुरुषश्रमं विना द्विषा भवतीत्यर्थः । अत्र कर्मणः कर्तृत्वेऽपि कर्मत्वातिदेशा. द्यक् । अपाचि अभेदीति । अत्र कर्मवत्त्वाच्चिण् । ननु कर्मणः कर्तृत्वविवक्षायां भावलकारे पच्यते ओदनेन, भिद्यते काष्ठेनेत्यत्र कर्मकर्तुस्तिगऽनभिहितत्वाद् द्वितीया स्यात् , कर्मवत्त्वातिदेशादित्याशङ्कते नन्विति । परिहरति नेति । नायमाक्षेप उन्मिषतीत्यर्थः । कुत इत्यत आह लकारवाच्य एव हि कर्ता कर्मवदिति । तच्च कुत इत्यत आह लिल्याशिषीति । 'व्यत्ययो बहुलम् , लिब्याशिष्य' इति संहितया पाठे लाकारात् पूर्व लकारान्तरं 'हलो यमाम्-' इति लुप्तं प्रश्लिष्यते । ततश्च ल् ल् इति द्विलकारात् सूत्राल् ल इति षष्ठ्यन्तं 'कर्मवत्कर्मणा-' इत्यत्रानुवर्तते । तथा च लः कर्ता कर्मवदिति लभ्यते। वाच्यत्वं षष्ठ्यर्थः, तथा च लकारवाच्यः कर्ता कर्मवदिति पर्यवस्यतीत्यर्थः । अस्त्वेवम् , प्रकृते किमायातमित्यत आह भावे प्रत्यये च कर्तुलकारेणानुपस्थितेरिति । तत्रं भावस्यैव तद्वाच्य. त्वादिति भावः । अत एवति । लकारवाच्यस्यैव कर्मकतुः कर्मवत्त्वविधानादेव कि तु कर्मणि स्यात् । पच्यते प्रोदनः, भियते काष्ठमिति । यद्यप्ययं प्रयोगः सिद्धान्ते इष्ट एव तथापि पच्यते ओदनेन भिद्यते काष्ठेनेति भावे न स्यादिति बोध्यम् । कर्मशब्देनात्र कर्मस्थक्रिया लक्ष्यत इत्याह कर्मस्थयेति । कर्मकारकस्थयेत्यर्थः । 'कर्तरि शप्' इत्यतः कर्तरीत्यनुवर्य प्रथमया विपरिणम्यते, स च विशेष्यस्तदाह तुल्यक्रिया कर्तेति । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशेऽपि लक्ष्यं सिध्यति, तथापि शास्त्रस्यापि कार्यार्थतया मुख्यत्वात्कार्यातिदेश एवाधितः । भावे लकारे इति । तत्र कर्तुरनभिहितत्वादिति भावः। द्विलकारकादिति । 'व्यत्ययो बहुलं लिब्याशिष्य' इति संहितया पाठेऽनुखारस्य परसवर्णेन जाते लकारे तस्योपरि लद्वयमित्यर्थः। तेन लकारवाच्यः कर्ता कर्मवदित्यर्थलाभायगादिकमेव भवति, न तु द्वितीयेत्यभिमतसिद्धिः । यत्र लकारवाच्यः कर्ता तत्रैव कर्मवत्त्वमिति म्युत्पादनस्य फलमाह अत एवेति । न भवन्तीति । लकारेणेव कर्मक रुपस्था