________________
प्रकरणम् ६३ ] बालमनोरमा-तत्वबोधिनीसहिता । [ ६११ २७६६ कर्मवत्कर्मणा तुल्यक्रियः । ( ३-१-८७ ) कर्मस्थया क्रियया तुल्यक्रियः कर्ता कर्मवत्स्यात् । कार्यातिदेशोऽयम् । तेन यगात्मनेपदचिणचिदिः स्युः । कर्तुरभिहितत्वात् प्रथमा । पच्यते श्रोदनः । भिद्यते काष्ठम् । ल इत्युक्तमिति भावः । तत्र एककर्मकेभ्यः कर्मणः कर्तृत्वविवक्षायां भावे लकारमुदाहरति पच्यते श्रदनेनेति । ओदनकर्तृकः पाक इत्यर्थः । एवं भिद्यते काटे - त्यपि । यद्यपि पचेर्द्विकर्मकत्वम्, तथापि तण्डुलानामविवक्षायाम् एककर्मकत्वं पचेराश्रितम् । कर्तरि त्विति । एककर्मकेषु कर्मण: कर्तृत्वविवक्षायां कर्तरि लकारे विशेषो वक्ष्यते इत्यर्थः । कर्मवत्कर्मणा । 'कर्तरि शप्' इत्यतः कर्तरीत्यनुवृत्तं प्रथमया विपरिणम्यते । तुल्या क्रिया यस्य स तुल्यक्रियः कर्ता । कर्मणेत्यनेन कर्मकारकस्था क्रिया विवक्षिता, क्रियायाः कर्मकारकेण तुल्यत्वस्य तत्स्थकियामादायैव उपपायत्वात्, तदाह कर्मस्थयेत्यादिना । कर्मण: कर्तृत्वेन विवक्षायां कर्ता कर्मवदिति यावत् । वत्करणाभावे तु कर्मसंज्ञक इत्यर्थशङ्का स्यात् । तथा सति सकर्मकत्वात् पच्यते श्रदनेन, भिद्यते काष्ठेनेति भावे लो न स्यात् । कार्यातिदेशोऽयमिति । यद्यपि शास्त्रातिदेशे कार्यातिदेशे वा न फलभेदः । तथापि शास्त्रातिदेशस्यापि कार्यातिदेशार्थत्वान्मुख्यत्वात् कार्यातिदेश एवाश्रयणीय इत्यर्थः । तेनेति । स्युरित्यत्रान्वेति । कर्मवत्त्ववचनेन कर्मकार्याणि ‘सार्वधातुके यक्' इति यक्, 'भावकर्मणोः' इत्यात्मनेपदम्, ‘चिण् भावकर्मणोः' इति चिण्, 'स्यसिच्सीयुट्तासिषु -' इति चिण्वत्त्वम्, तत्संनियोगशिष्ट इट् च स्युरित्यर्थः । कर्मणः कर्तृत्वविवक्षायां कर्तरि विहितानि शास्त्राण्येव न भावः । द्विकर्मकेषु कर्मण: कर्तृत्वविवक्षायामुदाहरणम् -' मध्नाति सागरोऽमृतम्' 'स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता वसूपमानस्य वसूनि मेदिनी' इति । प्रदुग्धे इत्यत्र 'कर्मवत्कर्मणा-' इति प्राप्तस्य सकर्मकाणामिति निषेधे दुहिपच्योरिति प्रतिप्रसूतस्य यको 'न दुहस्नुनमाम् -' इति निषेधः । उक्तप्रयोगानुरोधाद् द्विकर्मकेषु गौणस्यैव कर्मणः कर्तृत्वविवक्षा न मुख्यस्येत्याहुः । तच्चिन्त्यम्, अजां ग्रामं नयतीत्यत्र मुख्यकर्मणः कर्तृत्वविवक्षादर्शनात् । श्रत्रेदमवधेयम् - अधिकरणत्वाविवक्षायां व्रजो गौणकर्मेति रुणद्धि व्रजो गां स्वयमेवेति भवति । यदा तु व्रजस्य न कर्मत्वं तदा मुख्य कर्मणोऽपि कर्तृत्वविवक्षा भवति । रुध्यते ब्रजे गौः स्वयमेवेति । तथा गोरपादानत्वविवक्षायां गौर्दुह्यते पयः स्वयमेवेत्यादि । कर्मवत्कर्मणा । वत्करणं किमर्थम्, यथा ब्रह्मदत्ते प्रयुज्यमानो ब्रह्मदत्तशब्दो ब्रह्मदत्तवदित्यर्थं वदति तथा कर्मेत्युच्य - मानेऽपि कर्मवदित्यर्थलाभात् । सत्यम्, कर्मणा तुल्यक्रियः कर्ता कर्मेत्युच्यमाने कर्मसंज्ञक इत्यर्थः स्यात् । तथा हि सति अकर्मकव्यपदेशाभावाद्भावे लकारो न स्यात् ।