________________
६१० ]
सिद्धान्तकौमुदी ।
[ कर्मकर्तृति -
राययपि कर्तृसज्ञां लभन्ते, स्वव्यापारे स्वतन्त्रत्वात् । तेन पूर्वं करणत्वादिसवेऽपि सम्प्रति कर्तृत्वात्कर्तरि लकारः । साध्वसिश्छिनत्ति । काष्ठानि पचन्ति । स्थाली पचति । कर्मणस्तु कर्तृत्वविवक्षायां प्राक्सकर्मका श्रपि प्रायेणाकर्मकाः । तेभ्यो भावे कर्तरि च लकाराः । पच्यते श्रोदनेन । भिद्यते काष्ठेन । कर्तरि तुकूलः पुरुषचेष्टाविशेषः । धातूपात्तव्यापाराश्रयः पुरुषः कर्ता, स्वतन्त्रत्वात् । स्वा तन्त्र्यं प्राधान्यमिति भाष्यम् । कर्मकरणादिकं तु पुरुषप्रय त्रपरतन्त्रत्वान्न कर्तृत्वं लभते इति स्थितिः । तत्र यदा सौकर्यातिशयविवक्षया कर्तुः पुरुषस्य व्यापारः प्रयत्नो न विवक्ष्यते, किंतु कर्मादिगत एव व्यापारो विक्त्त्यिादिफलानुकूलत्वेन विवक्ष्यते तदा कर्मादिकार काण्यपि कर्तृसंज्ञां लभन्ते इत्यर्थः । ननु कर्मादिगतव्यापारस्य पुरुष प्रयत्नाधीनत्वादस्वतन्त्रत्वात्कथं कर्मण: कर्तृत्वमित्यत श्राह स्वव्यापारे स्वतन्त्रत्वादिति । स्वातन्त्र्येण विवक्षितत्वादित्यर्थः । तदुक्तं कर्मवत्कर्मणा इत्यत्र भाष्ये, 'कर्मकर्तरि कर्तृत्वं स्वातन्त्र्यस्य विवक्षितत्वा' इति । श्रत्र कर्मग्रहणं करणादिकारकस्याप्युपलक्षयाम् । तेनेति । असिना छिन तीत्यादिप्रयोगदशायाम् असिकुठारादीनां करणत्वादिसत्त्वेऽपि असिः छिनत्ति इत्यादिप्रयोगदशायां कर्तृत्वेन विवक्षितत्वात् कर्तरि लकार इत्यर्थ । साध्वसिः छिनत्तीति । अत्र करणस्य कर्तृत्वविवक्षा । साधु इति क्रियाविशेषणं सौकर्याशयद्योतनाय । प्रतितैक्ष्ण्यात् पुरुषप्रयत्नविशेषमाघातातिशयं विना स्वयमेव 8 सिः छिनत्तीत्यर्थः । काष्ठानि पचन्तीति । अत्रापि करणानां कर्तृत्वविवक्षा । स्थाली पचतीति । अत्राधिकरणस्य कर्तृत्वविवक्षा । काष्ठानामतिशुष्कत्वाद् धमन हूत्कारानपेक्षया स्थाल्या अतिलघुत्वादविलम्ब्य श्रपणतया सौकर्य बोध्यम् । कर्मणस्त्विति । ये छिदिभिदिप्रभृतय एककर्मकाः, तत्र कर्मण: कर्तृत्वविवक्षायां वृक्षः छिनत्तीत्यादौ प्राक् सकर्मकः - ऽपि संप्रति कर्मणः कर्तृत्वविवक्षायामकर्मका एते इत्यर्थः । स तु द्विकर्मकाः, एकस्य कर्मण: कर्तृत्वविवक्षायामपि इतरेण कर्मणा सकर्मक वसत्त्वात्प्रायेणेत्युक्तिः । ततश्च तेषु द्विकर्मकेषु कर्मणि कर्तरि च लकारः । तत्र कर्मणि लकारे यथा - सुधां क्षीरसागरो मध्यते । कर्तरि यथा-सुधां क्षीरसागरो मथ्नाति । अथ यदुक्तं एक कर्मकेषु कर्मणः कर्तृत्वविवक्षायामकर्मकत्वमिति, तस्य प्रयोजनमाह तेभ्यो भावे कर्तरि च लकारा इति । न तु कर्मणि, असंभवात् । अत एव अकर्मकेभ्यो भावे कर्त
त
1
कर्मणस्त्विति । सौकर्यातिशयं द्योतयितुमित्यनुषःःः । प्रायेणेति । ये भिदिच्छिदिप्रभृतय एककर्मकास्ते श्रकर्मकाः, ये तु द्विकर्मकास्ते सकर्मका इति भावः । कर्मकत्वस्य फलमाह भावे कर्तरि चेति । भावे चाकर्मकेभ्य इत्युक्तत्वादिति १ 'प्राक्' इति क्वचिन्नास्ति ।