________________
प्रकरणम् ६२ ] बालमनोरमा-तत्वबोधिनीसहिता । देवदत्तेन । णिजन्तात्तु प्रयोज्ये प्रत्ययः । मासमास्यते माणवकः । इति भावकर्मतिप्रकरणम् ।
अथ कर्मकर्तृतिकरणम् ॥ ६३ ॥
यदा सौकर्यातिशयं योतयितुं कर्तृव्यापारो न विवचयते तदा कारकान्तव्यवस्था प्रयोजनवतीत्यभिप्रेत्य मासमास्यते माणवक इति ण्यन्ते प्रयोज्यकर्मणि माणवके एव लः, न तु मासे कर्मणि इत्युदाहरिष्यते । एवं तर्हि श्रयन्तेष्वकर्मकेषु मासमास्यते देवदत्तेनेति भावे लकारो न स्यात् सकर्मकेभ्यः कर्मणि कर्तरि च ल इति नियमात् । मास श्रास्यते देवदत्तेनेत्येव कर्मणि मासे लकारः स्यादित्याशङ्कयाह अकर्मकाणामित्यादि । ये अकर्मकाः 'कर्तुरीप्सिततमं कर्म, तथायुक्तं चानीप्सितम्' इति सूत्र सिद्धकर्मरहिताः 'श्रास उपवेशने, ऋतु वर्तने' इत्यादयः, तेषां 'अकर्मक धातुभिर्योगे -' इति वार्तिकसिद्धकर्मकारणां कर्मणि भावे च लकार इष्यते इत्यर्थः । न चेदं वार्तिकमिति भ्रमितव्यम्, भाष्ये प्रदर्शनात् । किंतु न्यायमूलकमेव, अकर्मक धातुभिर्योगे देशकालादीनां कर्मसंज्ञाविकल्पस्य भाष्याद्यभिमतत्वात् । यथा चैतत्तथा कारकाधिकारे 'अकर्मक धातुभिर्योगे -' इति वचनव्याख्यावसरेऽवोचाम, तदा मासो मासे वा आस्यते देवदत्तेनेति । अत्र मासस्य कर्मत्वप कर्मलकारः, मासस्याभिहितत्वात् प्रथमा । मासस्य कर्मत्वाभावपचे तु भावे लकारः । मास इति सप्तमी । मासमिति त्वपपाठ: । अथ प्रकृतमनुसरति णिजन्तात्त्विति । श्रासधातोः प्रकृतिसिद्धकर्मरहितत्वेन श्रकर्मकारणौ मासस्य कर्मत्वपक्षेऽपि प्रयोज्यकर्मण्येव लकार इत्यर्थः । मासमास्यते माणवक इति । ण्यन्तात् प्रयोज्यकर्मणि माणवके लः । मासस्यानभिहितत्वाद् द्वितीया । हृकोस्तु हार्यते कार्यते वा भृत्यः कटं देवदत्तेन ।
[ ६०६
इति श्रीवासुदेवदीक्षित विदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां भावकर्मप्रक्रिया समाप्ता ।
श्रथ कर्मकर्तृप्रक्रियां निरूपयिष्यन् कर्मणः कर्तृत्वं साधयितुमाह यदेति । फलव्यापारयोर्धातुरिति सिद्धान्तः । पचिर्हि विह्नित्यनुकूलव्यापारे वर्तते । तत्र विक्लित्तिः फलम् । तदाश्रय श्रोदनं कर्म । तदनुकूलो व्यापारः अधिश्रयणादिः पुरुषरूपो व्यापारः । तत्राधिश्रयणं चुल्ल्या उपरि तण्डुलयुक्तस्थाल्याः स्थापनम् | स्थापनं स्थित्यनुकूलव्यापारः । तत्र स्थितिः स्थालीतण्डुलनिष्ठा । तदनुमाणवक इति । श्रयं प्रयोज्यः कर्ता । देवदत्तेनेति प्रयोजकस्त्वध्याहर्तव्यः । इति तत्त्वबोधिन्यां भावकर्म प्रक्रियाप्रकरणम् ।