________________
६०८ ] सिद्धान्तकौमुदी। [भावकर्मतिङ्
(१.१०-१०१५ वार्तिकार्थः)। गोर्दुह्यतो पयः । प्रजा प्रामं नीयते हियते कृष्यते उद्यते । बोध्यते माणवकं धर्मः, मागको धर्ममिति वा । भोज्यते माणवकमोदनः, माणवक प्रोदनं वा । देवदत्तो प्रामं गम्यते । 'अकर्म: काणां काजादिकर्मकाणां कर्मणि भावे च लकार इष्यते' । मासो मासे वा धास्यते गत्यर्थानाम् अकर्मकणां 'हृको.-' इति सूत्रोपात्तहृयोश्व प्रयोज्य कर्मणि लादयो मता इत्यन्वयः। अयं सार्ध श्लोकः 'अकथितं च' इति सूत्र वार्तिकभाष्यसंग्रह इति बोध्यम् । गोर्दुह्यते पय इति । गोपेनेति शेषः । अत्र गोरप्रधानकर्मत्वात्तस्मिन् कर्मणि लकारः । तिङा अभिहितत्वाद् गोः प्रथमा । प्रधानकर्मत्वात्पत्र इति द्वितीयान्तम् , तस्य तिडा अनभिहितत्वात् । बलि र्याच्यते वसुधाम् । अविनीतो विनयं याच्यते। तण्डुला ओदनं पच्यन्ते । गर्गाः शतं दरड्यन्ते । ब्रजो मध्यते गाम् । माणवकः पन्थानं पृच्छयते । वृक्षोऽवचीयते फलानि । मागावको धर्मम् उच्यते, शिष्यते वा । शतं जीयते देवदत्तः । सुधां क्षीरोदधिमथ्यते । देवदत्तः शतं मुष्यते । एतेषु गौणुकर्मणि लकारः । अथ प्रधाने नो कृष्वहामित्यत्रोदाहरति अजा ग्रामं नीयते, ह्रियते, कृप्यते, उह्यते इति । प्रतिक्रियमजा ग्राममित्यन्वेति । उद्यत इत्यत्र वहतेर्यजादित्वात्संप्रसारणम् । अत्र अजायां प्रधानकर्मणि लकारः, ग्रामस्यानभिहितत्वाद् द्वितीया । बुद्धयर्थस्योदाहरति बोध्यते माणवकं धर्मः, माणवको धर्ममिति वेति । गुरुणेति शेषः । अत्र माणवके गौणकर्मणि धर्मे वा प्रधानकर्मणि ण्यन्ताद् लकारः । भक्षार्थस्य तु अश्यन्ते देवा अमृतं हरिणा, अश्यतेऽमृतं देवानिति वा उदाहार्यम् । शब्दकर्मकस्य तु वेदोऽध्याप्यते विधि हरिणा, वेदमध्याप्यते विधिरिति वेत्युदाहार्यम् । यदुक्तं गत्यर्थाना अकर्मकाणां हृमोश्चे. त्येतेषां प्रयोज्यकर्मणि लकार इति । तत्र गत्यर्थस्योदाहरति देवदत्तो ग्राम गम्यते इति । यज्ञदतेनेति शेषः । अत्र प्रयोज्यकर्मणि देवदत्ते गमेरार्थन्ताद लः । ननु अकर्मकाणां एयन्तानां प्रयोज्यकर्मण्येव लादय इति व्यवस्था व्यर्था। तत्र प्रयोज्यं विना अन्यस्य कर्मणोऽभावादित्याशङ्कय 'अकर्मकधातुभिर्योगे देशः कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्' इति वार्तिकेन अकर्मधातूनामपि देशकालादिकर्मत्वेन ण्यन्तानां तेषां द्विकर्मकतया प्रयोज्यकर्मण्येव तत्र लादय इति कर्मकहकरोतीनाम् । लादय इति । कृत्यकखला आदिशब्देन प्राह्याः । गौ?ह्यत इति। देवदत्तेनेति शेषः । कृयादिषु गौर्दोग्धव्या दोहनीया पयः। गौः सुदोहा दुर्दोहा पयः। अजा प्रामं नेतव्या, नयनीया । हतैव्या । हरणीया। अजा प्रामं नेया इत्याद्युदाहर्तव्यम् । ग्रामं गम्यत इति । यज्ञदत्तेनेत्यध्याहारः ।
१ 'मासम्' इति क्वचित् पाठः ।