________________
प्रकरणम् ६२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०७ लभेर्नुमागमो वा स्यात् । अनम्भि, मलाभि । ग्यवस्थितविकल्पस्वात्प्रादेनित्य नुम् । प्रालम्भि । द्विकर्मकाणां तु
गौणे कर्मणि दुसादेः प्रधाने नीहकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया ॥
प्रयोज्यकर्मण्यन्येषां एयन्तानां लादयो मताः । इत्यतो नुमिति चानुवरते इति मत्वा शेषं पूरयति लभेर्नुमागमो वेति । ननु प्रालम्भि उपालम्मीलादौ उपसर्गपूर्वस्यापि लभेः नुम्विकल्पः स्यादित्य पाह व्यवस्थितेति । प्रादेरुपसर्गात्परस्य लभेनित्यं नुम् । अनुपसर्गात्परस्य तु लभेर्विभाषा नुमिति व्यवस्थितविकल्पाश्रयणादुपसर्गपूर्वस्य लभेनित्यं नुमित्यर्थः। वस्तुतस्तु 'चिएणमुलोरनुपसर्गस्य' इति वार्तिकात् , .भाष्ये 'उपसर्गात् खल्घनोः' इत्यत उपसर्गादिति 'न सुदुाम्' इत्यतो नेति चानुवर्त्य उपसर्गात्परस्य लभेः 'विभाषा चिरणमुलोः' इति नेति व्याख्यातत्वाच्च । एतेन प्रपूर्वस्य लभेनित्यं नुमिति व्याख्यानं परास्तम् । 'लः कर्मणि-' इति लकारा विहिताः । तथा 'तयोरेव कृत्यक्तखलाः' इति कर्मणि कृयादिप्रत्यया वक्ष्यन्ते। ते तावद् द्विकर्मकधातुषु कतरस्मिन् कर्मणि भवन्तीत्यत्र व्यवस्थामाह द्विकर्मकाणां त्विति । कर्मप्रत्ययव्यवस्था वक्ष्यत इति शेषः । तां व्यवस्था सार्धश्लोकेन दर्शयति गौणे कर्मणीत्यादिना । दुयाच्पच्दण्ड्धिच्छिचित्रूशासुजिमथ्मुख गौणे कर्मणि लादयो मता इत्यन्वयः । 'अकथितं च' इति सूत्रेण यस्य कर्मसंज्ञा तद् गौणं कर्मेति बोध्यम् । प्रधाने इति । नीकृष्वहां प्रधाने कर्माण लादयो मता इत्यन्वयः । 'अकथितं च' इति सूत्रादन्येन यस्य कर्मसंज्ञा तत्प्रधानं कर्मेति बोध्यम् । अथ 'गतिबुद्धि-' इति सूत्रेण ये द्विकर्मकाः तेषु व्यवस्थमाह बुद्धीति । बुद्ध्यर्थकस्य भक्षार्थकस्य शब्दकर्मकाणां च प्रधाने वा गौणे वा कर्मणि स्वेच्छया लादयो मता इत्यन्वयः । इह 'गतिबुद्धि-' इत्यनेन यस्य कर्मसंज्ञा तद् गौण कर्म । तदितरत्तु प्रधानं कर्म। प्रयोज्येति । अन्येषां द्विकर्मकास्तेषु लकृयक्तखलाः किं मुख्य कर्मणि, उत गौणे, किं वोभयोरिति संदेहे व्यवस्थामाह द्विकर्मकाणां त्विति । दुह्यादेरिति । दुह्याचपचिति श्लोके पूर्वार्धोपात्ता द्वादश दुल्यादयस्तेभ्यो गौणे कर्मणि लादयो मता इत्यन्वयः । ‘अकथितं च' इति सूत्रेण यस्य कर्मसंज्ञा तद्गौणम् । 'गतिबुद्धि-' इति सूत्रेण ये द्विकर्मकास्तत्र व्यवस्थामाह बुद्धिभक्षार्थयोरिति । निजेच्छयेति। गौणे वा मुख्ये वा कर्मणीत्यर्थः । इह 'गतिबुद्धि-' इति सूत्रेण यस्य कर्मसंज्ञा तद् गौणम् । प्रयोज्येति । अणौ कर्तुर्ने कर्मसंज्ञा यस्य तत्प्रयोज्यकर्म । अन्येषामिति । गत्यर्षा