________________
६०६ ] सिद्धान्तकौमुदी। [भावकर्मतिङ्(७-३-३४) उपधाया वृद्धिर्न स्यक्षिणि जिति णिति कृति च । भशमि । अदमि । उदात्तोपदेशस्य इति किम्-अगामि । मान्तस्प किम्-श्रवादि । अनाचमेः किम्-आचामि । 'अनाचमिकमिवमीनामिति वक्तव्यम्' (वा ५५१८)। चिणि 'आयादयः-' (सू २३०५) इति णिङभावे, 'प्रकामि । णिणिचो रप्येवम् प्रवामि । वध हिंसायाम् , हलन्तः । 'जनीवध्योश्च' (सू २५१२) इति न वृद्धिः, अवधि । जाग्रोऽविचिएणल्डिरसु' (ग २४८० ) इत्युक्रेन गुणः । श्रजागारि । २७६४ भजेश्च चिणि । (६-४-३३) नलोपो वा स्यात् । श्रभाजि, अभञ्जि । २७६५ विभाषा चिराणमुल। (७-१-६६) तु चिणः, अव्यभिचारात् । तदाह उपधाया इत्यादिना। अनुदात्तोपदेशाः संगृहीताः । ततोऽन्यः सर्वोऽपि धातुरुदात्तोपदेशः । आपूर्वश्चमिराचमिः तद्वर्जस्येत्यर्थः । प्रशमि । अदमीति । शमधातोर्दमधातोश्च लुठि निणि 'श्रत उपधायाः' इति वृद्धिर्न । अगामीति । गमेरनुदात्तोपदेशत्वादिति भावः । अवादीति । वदधातुर्न मान्त इति भावः । आचामीति । अनाचमेरि युक्तेरिह नोपधावृद्धि. निषेधः । अनामिकमिवमीनामिति । प्राचमिकमिवमिवर्जानाम् इत्यर्थः । एवं च कमिवम्योरपि न निषेध इति फलितम् । ननु कमेरिकन्तत्वात् केवलस्य तस्य चिणादौ प्रयोग एव नास्तीत्यत आह चिण्यायादय इति । णिणिचो. रप्येवमिति । णिन्तारिणजन्ताद्वा कमेश्चिणि णिलोपे सति पूर्ववद् रूपं शिष्यत इत्यर्थः। ननु 'जनीवध्योश्च' इति वधेरुपधावृद्धिनिधो व्यर्थः । वधादेश स्यादन्ततया अल्लोपस्य स्थानिवत्त्वादेव अवधीत्यादौ उपधावृद्धयभावसिद्धरित्साशङ्कय वधिर्धात्वन्तरं हलन्तमेव 'जनीवध्योश्च' इत्यत्र गृह्यत इत्यभिप्रेत्याह वध हिंसायां हलन्त इति । भजेश्च चिणि । 'नानलोपः' इत्यतो नेति लुप्तषष्ठीकम् , लोप इति चानुवर्तते । 'जान्तनशां विभा' इत्यतो विभाषेति मत्वा शेषं पूरयति नलोपो वा स्यादिति । अभाजीति । नलोपपक्षे उपधावृद्धिः। विभाषा चिरणमुलोः। 'लभेश्च' इत्यतो लभेरिति 'इदितो नुम्-' दिति घटादावुक्तत्वात् । किं च ह्रखे जातेऽपि न क्षतिः । 'चिरमुलो:-' इति दीर्घविकल्पनाद् इति कथमड उद्यमे यम उपरमे इति प्रयोगः । संज्ञापूर्वकविधेरनित्यत्वाद् वृद्ध्यभाव इति ज्ञेयम् । अथवा उद्यमोपरमशब्दौ घार्थे कविधानाद् बोध्यौ । णिणिचोरप्येवमिति । णिङन्तारिणजन्ताद्वा कमेश्चिणि 'णेरनिटि' इति णिलोपे सति रूपं तुल्यमिति भावः । विभाषा । 'लभेश्च' इत्यतो लभेरिति वर्तते। णमुलि लभलभम् । लाभलाभम् । प्रादेस्तु प्रलम्नंप्रलम्भमित्येव । अथ ये
HTHHTHITHIR