________________
प्रकरणम् ६२ ] बालमनोरमा-तत्त्वबोधिनीसहिता। [६०५ शामिता, शमिता, शमयिता । शामिष्यते, शमियते, शमयिष्यते । यहन्ता. पिणच, शंशम्यते । शंशामिता, शंशमिता, शंशमयिता । यङ्लुगन्तारिणच्यप्येवम् । भाष्यमते तु यहन्ताधिएवदिटि दी? नास्तीति विशेषः । एयन्तस्वा भावे शम्यते मुनिना । २७६३ नोदात्तोपदेशस्य मान्तस्यानाचमेः। शय इत्यर्थः । शामिता, शमितेति । शमधातोपर्यन्ताल्लुटि तासि चिण्वदिटि दीर्घविकल्पः । शमयितेति । चिरवत्त्वाभावे वलादिलक्षणे इटि रूपम् । यङन्तादिति । शमधातोर्यडि शंशम्य इत्यस्माद् हेतुमरणौ 'यस्य हलः' इति यकारलोपे अतो लोपे शंशमि इत्यस्मात् कर्मलकारे णिलोपे शंशम्यते इति रूपमित्यर्थः । शंशामिता, शंशमितेति । 'चिराणमुलो:-' इति दीर्घविकल्पः । शंशमयितेति । चिण्वत्त्वाभावे वलादिलक्षणे इटि रूपम्। भाष्यमते त्विति । न पदान्तसूत्रे दीर्घग्रहणप्रत्याख्यानपरभाष्यमते वित्यर्थः । यङन्तादिति । ण्यन्ता. दिति शेषः । यङन्तारिणचि यलोपे अल्लोपे च कृते शंशमोत्यस्माल्लुटि तासि चिरवदिटि कृते तस्यासिद्धत्वारिणलोपे शंशमितेत्यत्र अल्लोपस्य स्थानिवत्त्वेन णिपरकत्वाभावात् 'चिएणमुलो:-' इति दी? नास्ति, भाष्यमते न पदान्तसूत्रे दीर्घग्रहणाभावेन स्थानिवत्त्वनिषेधाभावादित्यर्थः । शम्यते मुनिनेति । अकर्मकत्वाद्भावे ल इति भावः। नोदात्तोपदेशस्य । 'मृजेवृद्धिः' इत्यतो वृद्धिरिति 'अत उपधायाः' इत्यत उपधाया इति 'अचो णिति' इत्यतो णितीति 'अातो युक्' इत्यतश्चिरणकृतोः इति चानुवर्तते । तत्र रिणीति कृत एव विशेषणम् , न हेड अनादरे घटादिः । मिता ह्रखे कर्तव्य एच इक् । हिडयति । अत्र चिरणमुलोः कृतयोर्हखे विकल्प्यमाने अहिडि अहेडि इति स्यात् । दीर्धे तु अहिडि अहीडीति भवति । एतच्चात्रैव सूत्रे कैयटे स्पष्टम् । शंशामितेत्यादि । चिणि, अशंशमि अशंशामि। णमुलि, शंशमं शंशमं शंशाम शंशाममित्यादि द्रष्टव्यम् ।दी? नास्तीति। योऽल्लोपस्य स्थानिवत्त्वेन णिच्परत्वाभावादुपधादीर्घस्योपधावृत्तेश्चाप्रवृत्तेः । तथा च फलभेदादीर्घग्रहणप्रत्याख्यानं न युज्यत इति भावः । शम्यते मुनिनेति । अकर्मकत्वाद् भावे लः। नोदात्तोपदेशस्य । मिति कृति । शमः । दमः । घञ्। णिति कृति। शमकः । दमकः । ण्वुल् । उपदेश इति किम्, शमी । दमी। इह घिनुणि कृते वय॑मानस्वरेण उदात्तत्वाभावानिषेधो न स्यात् । कथं तर्हि 'हरेर्यदकामि पदककेन खम्' इति श्रीहर्षप्रयोग इति चेत् । अत्राहुः-निवृत्तप्रेषणाद्धातोः प्रकृतेऽर्थे णिचि ततश्चिण् बोध्यः। तथा च णिचोऽत्त्वाद् वृद्धरनिषेधः । मितामिति हवस्तु न भवति, 'या चित्तविरागे' इत्यतो वेत्यनुवर्य व्यवस्थितविभाषाश्रयणा