________________
६०४ ]
सिद्धान्तकौमुदी ।
[ भावकर्मतिङ्
लोपो न स्थानिवदिति दीर्घः सिध्यति । हस्वविधौ तु स्थानिवत्वं दुर्वारम् । भाष्ये तु 'पूर्वत्रासिद्धे न स्थानिवत्' इत्यवष्टभ्य द्विर्वचनसवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । णाविति जातिपरो निर्देशः । दीर्घग्रहणं चेदं मास्विति तदाशयः ।
"
हस्व एव तु न विकल्पित इति । कुत इत्यत श्राह यन्तारणाविति । शमधातोर्यन्तारौ पूर्वणेर्लोपे लुटि तासि रायन्तस्याजन्तत्वाचिण्वदिटि तस्याभीयत्वेनासिद्धतया श्रनिटीति निषेधाभावारिणलोपे दीर्घविकल्पे सति शमिता शामितेति रूपद्वयमिष्यते । हस्वविकल्पस्य विधौ तु ह्रस्वविकल्पो न स्यात् । प्रथमणिलोपस्य 'अचः परस्मिन् -' इति स्थानिवत्त्वेन व्यवहिततया चिरपरकणिपरकत्वाभावादित्यर्थः । दीर्घविकल्पविधौ तु न दोष इत्याह दीर्घविधाविति । दीर्घविकल्पविधौ हि प्रथमस्य णिचो लोपो न स्थानिवत्, दीर्घविधौ स्थानिवत्त्वनिषेधात् । अतोऽत्र दीर्घविकल्पः सिध्यति । हस्वविधौ तु प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् तत्र स्थानिवत्त्वनिषेधाभावादित्यर्थः । भाष्ये त्विति । न पदान्तसूत्रस्थभाष्ये तु 'पूर्वत्रासिद्धे न स्थानिवद्' इत्येव सिद्धत्वाद् न पदान्तसूत्रे द्विर्वचनमवर्णानुस्वारदीर्घजश्वरः प्रत्याख्याताः । सुद्ध्युपास्य इत्यत्र 'अनचि च' इति द्विर्वचनस्य, शिरढीत्यत्र 'नश्च' इत्यनुस्वारस्य 'अनुस्वारस्य ययि-' इति परसवर्णस्य च प्रतिदीन इत्यत्र 'हलि च' इति दीर्घस्य, सग्धिरित्यत्र 'झलां जश् झशि' इति जश्त्वस्य, जक्षतुरित्यत्र 'खरि च' इति चस्य च पूर्वत्रासिद्धीयत्वादित्यर्थः । ननु ण्यन्तारौ 'चिरणमुलोः -' इति दीर्घे कर्तव्ये प्रथमणिलोपस्य स्थानिवत्त्वं दुर्वारम् 'विराणमुलो:-' इति दीर्घस्य पूर्वत्रासिद्धीयत्वाभावात् । ततश्च प्रथमणिचा व्यवहितत्वाद्दीर्घानापत्तिः । एवं च तत्र दीर्घे कर्तव्ये स्थानिवत्त्वनिवारणाय दीर्घग्रहणस्यावश्यकत्वात्कथं दीर्घप्रहणप्रत्याख्यानमित्यत श्राह सावितीति । 'चिरणमुलो :-' इति दीर्घविधौ चिरपरे णमुल्परे च गौ इत्यत्र णाविति णित्वजातिप्रधानो निर्देशः । चिराणमुल्परकणित्वजातौ परत इति लभ्यते । णित्वजातिश्च णिमयेऽस्तीति प्रथमणेः स्थानिवत्त्वेऽपि दीर्घो निर्बाध इति न पदान्तसूत्रे दीर्घग्रहण प्रत्याख्यानभाष्यस्याविति । णिलोपस्य स्थानिवत्त्वेन व्यवधानादिति भावः । दीर्घः सिध्यतीति । 'न पदान्त-' इति निषेधादित्यर्थः । ननु त्रिपादीस्थे दीर्घे कर्तव्ये स्थानिवत्त्वाभावः 'पूर्वत्रासिद्धम्' इत्यनेनैव सिद्ध इति दीर्घग्रहणस्योपयोगाभावेऽपि रायन्ताराणौ 'चिराणमुलो:-' इति दीर्घे कर्तव्ये स्थानिवद्भावनिवारणाय दीर्घग्रहणमावश्यकमित्यतश्राह जातिपरो निर्देश इति । इदं मास्त्विति । हस्वविकल्पेनापीष्टं सिध्यतीति भावः । वस्तुतस्तु 'चिरणमुलो:-' इति सूत्रे दीर्घग्रहणं कर्तव्यमेव । तथा हि ।