________________
प्रकरणम् ६२ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६०३
दिडभावे 'उश्च' ( २३६८ ) इति किश्वम्, इवं रपरस्व 'हलि च' ( सू ३५४) इति दीर्घः, 'इणः षीध्वम् -' ( सू २२४७ ) इति नित्यं दवम्, अगीर्व्वम् । ढवमानां द्वित्वविकल्पेऽष्टौ । उक्तषण्णवत्या सह सङ्कलने उक्ता संख्येति ।
इड् दीर्घश्चिण्वदिट् लत्वं ढत्वं द्वित्वत्रिकं तथा । इस्यष्टानां विकल्पेन चतुर्भिरधिकं शतम् ॥
हेतुमण्यन्तात्कर्मणि लः । यक् णिलोपः । शम्यते मोहो मुकुन्देन । २७६२ चिरणमुलोर्दीर्घो ऽन्यतरस्याम् । ( ६-४-६३) चिरपरे णमुल्परे च णौ मितामुपधाया दीर्घो वा स्यात् । प्रकृतो 'मितां हस्व:' ( सू २५६८ ) एव तु न विकल्पितः ण्यन्तारयौ हस्वविकल्पासिद्धेः । दीर्घविधौ हि णिचो
,
रूपमित्यर्थः । ढवभानामिति । ढस्य 'अचो रहाभ्याम् -' इति द्वित्वविकल्पे एकढं द्विढमिति द्वे रूपे । तयोः वस्य 'यणो मयः -' इति द्वित्वविकल्पे एकवे द्वे द्विवे द्वे इति चत्वारि । एषु चतुर्षु मस्य 'अनचि च' इति द्वित्वविकल्पे एकमानि चत्वारि द्विमानि चत्वारीत्यष्टौ रूपाणीत्यर्थः । षण्णवत्येति । उक्तषराणवत्या अष्टानां मेलने सति या संख्या सिध्यति सा चतुरुत्तरशतसंख्या उक्तेति ज्ञेयमित्यर्थः । उक्तप्रक्रियां श्लोकेन संगृह्णाति इदीर्घ इत्यादिना । वलादिलक्षण इट्, 'वृतो वा' इति दीर्घः । अजन्तलक्षणः चिण्वदिट्, 'अचि विभाषा' इति लत्वम्, 'विभाषेट:' इति वा ढत्वम्, धढवमानो द्वित्वत्रिकमित्यष्टानां विकल्पात् चतुरधिकं शतं रूपाणीत्यर्थः । शम्यते मोहो मुकुन्देनेत्यत्र प्रक्रियां दर्शयति हेतुमण्ण्यन्तादिति । शमधातोर्हेतुमण्णौ उपधावृद्धौ श्रमन्तत्वेन मित्त्वाद्धस्वे शमीत्यस्मात्कर्माणि लः, न तु भावे, हेतुमरारायन्तस्य सकर्मकत्वनियमादिति भावः । यगिति । त िकृते 'सार्वधातुके यक्' इत्यनेनेति शेषः । णिलोप इति । 'रनिटि' इत्यनेनेति शेषः । लुटि ताखि शमि इ ता इति स्थिते श्रमन्तत्वेन मित्त्वान्नित्यमुपधाहस्खे प्राप्ते चिरणमुलोः । ' दोषो गौ-' इत्यतो णाविति 'ऊदुपधाया गोहः' इत्यस्मादुपधाया इति 'मितां ह्रस्वः' इत्यतो मितामिति चानुवर्तते, तदाह चिरपरे इत्यादिना । नन्विह दीर्घग्रहणं व्यर्थम्, चिरणमुलोरन्यतरस्यामित्येतावतैव 'मित हखः' इति पूर्वसूत्रादनुत्रृत्तस्य ह्रस्वस्य विकल्पे दीर्घविकल्पस्य सिद्धेरित्यत आह प्रकृतो मितां
द्वित्वे षण्णवतिः । दवमानामिति । 'अचो रहाभ्याम् -' इति ढस्य द्वित्वे द्वयम् । द्वयोरपि वस्य 'यणो मयः -' इति द्वित्वे चत्वारि । चतुर्णामपि मस्य 'अनचि च' इति द्वित्वे त्वष्टौ । चिण्णमुलोः । शामितेत्यादौ 'जनीजष्-' इत्यादिना मित्त्वेन मितामुपधाया नित्यं हस्खे प्राप्ते दीर्घोऽनेन विकल्प्यते रायन्ताराणा