________________
६०२] सिद्धान्तकौमुदी। [भावकर्मतिङ् गिरते डि ध्वमि चतुरधिकं शतम् । तथा हि-थिएवदिटो दी| नेत्युक्तम् , प्रगारिध्वम् । द्वितीये स्विटि 'वृतो वा' (सू २३११) इति वा दीर्घः, अगरीध्वम् , भगरिध्वम् । एषां त्रयाणां लत्वं ढत्वं द्वित्वत्रयं चेति पच वैकल्पिकानि, हत्थं षण्णवतिः । 'जिसिचो:-' (सू २५२८) इति विकल्पातु, गरिषीष्ट । लुङि अगारि अगारिषाताम् , अगीर्षाताम्, 'अगरिषाताम् । इति सिद्धवत्कृत्याह लुङि ध्वमि चतुरधिकं शतमिति । रूणोति शेषः । तदेवोपपादयति तथाहीति । अगारिवामिति । ग स् ध्वम् इति स्थिते चिराव. दिटि वृद्धौ रपरत्वे 'धि च' इति सलोपे रूपमिति भावः । द्वितीये त्विटीति । चिरावदिडभावपक्षे वलादिलक्षणे सिच इटि ऋकारस्य गुणे रपरत्वे 'धि च' इति सलोपे 'वृतो वा' इति दीघविकल्प अगरिध्वम्, अगरीध्वम् इति रूपद्वयमित्यर्थः । एषामिति । एषां त्रयाणां मध्ये एकैकस्मिन् रेफस्य 'अचि विभाषा' इति लत्वम् । 'विभाषेटः' इति वा धस्य ढत्वम् । तथा धस्य तदादेशढस्य वस्य मस्य च द्वित्वत्रयमित्येवं पञ्च वैकल्पिकानीत्यर्थः । तत्र धढयोर्मस्य च 'अनचि २' इति द्वित्वविकल्पः। वकारस्य तु मय इति पञ्चमीमाश्रित्य 'यणो प्रयः' इति द्वित्वविकल्प इति विवेकः । यद्यपि धढयोर्वस्य मस्य च द्वित्वचतुष्टयमिति वक्तुमुचितम् , तथापि ढस्य घस्थानिकतया धढयोरेकत्वमभिप्रेत्य द्वित्वत्रयमित्युक्तिः । इत्थमिति । एवं च त्रयाणामेषां लत्वविकल्पे रेफवन्ति त्रीणि, लकारवन्ति त्रीण इति षट् । एक षट्सु धस्य द्वित्वविकल्पे एकधानि षट् , द्विधानि च षडिति द्वादश । तथा रेफवासु त्रिषु लकारवत्सु च त्रिषु ढस्य द्वित्वविकल्पे एकढानि षट् , द्विढानि च षडिति द्वादश । उभयेषामपि द्वादशानां मेलने चतुर्विंशतिः । एषु वस्य द्वित्वविकल्पे एकवानि चतुर्विंशतिः, द्विवानि चतुर्विंशतिरित्यष्टाचत्वारिंशत् । एषु मस्य द्वित्वविकल्पे एकमान्यष्टाचत्वारिंशत् , द्विमान्यष्टाचत्वारिंशदिति षण्णवतिरित्यर्थः । लिङसिचोरितीति । चिरावदिडभावपक्षे वलादिलक्षणस्य इटो 'लिङ्सिचोः' इति विकल्पितत्वात्तदभावपक्षे 'उश्च' इति सिचः कित्त्वाद् गुणाभावे ऋत इत्त्वे रपरत्वे 'हलि च' इति दीर्घ रेफादिणः परत्वाद् 'इणः षीध्वम्-' इति नित्यं ढत्वे अर्गीढ्वमिति चिण्वदिट् । सिचः कित्त्वादिति । लिङ्सिचावात्मनेपदेषु' इत्यनेन । लत्वमिति । 'अचि विभाषा' इति । गिरते रेफस्य लत्वे षट् । ढत्वमिति । 'विभाषेटः' इत्यनेन षण्णां ढत्वे द्वादश। द्वित्वत्रयं चेति । 'अनचि च' इति द्वादशानां मध्ये षण्णां ढस्य षण्णां धस्य च द्वित्वे चतुर्विंशतिः। मय इति पञ्चमी यण इति षष्ठीति पचे वकारस्य द्वित्वेत्वष्टाचत्वारिंशत् । 'अनचि च' इति मकारस्य