________________
प्रकरणम् ६२ ]
बालमनोरमा-तत्त्वबोधिनीसहिता । [ ६०१
अवधिषाताम् । अघानिष्यत, महनिष्यत । नच स्यादिषु चिण्वदित्य तिदेशाद्वधादेशः स्यादिति वाच्यम्, 'अङ्गस्य' ( सू २०० ) इत्यधिकारादाङ्गस्यैवातिदेशात् । गृह्यते । चिण्वदिटो न दीर्घत्वम्, प्रकृतस्य वलादिलक्षणस्यैवेटो 'अहोऽलिटि -' ( सू २५६२ ) इत्यनेन दीर्घविधानात् । ग्राहिता, ग्रहीता । प्राहिष्यते, ग्रहीष्यते । प्राहिषीष्ट ग्रहीषीष्ट । श्रग्राहि श्रप्राहिषाताम् अग्रहीषाताम् । दृश्यते । श्रदर्शि प्रदर्शिषाताम् । सिचः कित्त्वादन्न, रक्षाताम् ।
पक्षे अवधीति । 'आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशपक्षे इत्यर्थः । अवधिषतामिति । 'आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि पाक्षिकतया अप्राप्तेऽपि वधादेशे चिरवत्त्वस्यारम्भान्नापवादत्वमिति भावः । ननु चिणि वधादेशस्य दृष्टत्वात् स्यादिषु चिण्वत्त्वाद्वधादेशः स्यादित्याशङ्कय परिहरति न चेत्यादिना । आङ्गस्यैवेति । वधादेशस्तु द्वैतीयीकः, न त्वङ्गाधिकारस्थ इति भावः । अथ प्रह उपादाने' इत्यस्माददुपधात् कर्मलकारे उदाहरति गृह्यते इति । 'प्रहिज्या -' इति संप्रसारणम् । अथ लुटि तासि चिण्वदिटि 'ग्रहोऽलिटि -' इति दीर्घमाशङ्कयाह चिण्वदिटो न दीर्घत्वमिति । कुत इत्यत आह प्रकृतस्येति । वलादिलक्षणस्य इटः प्रकृतत्वात्तस्यैव 'प्रहोऽलिटि -' इति दीर्घविधौ ग्रहणम् नतु चिण्वदिट इति भाष्ये स्पष्टम् । ग्राहितेति । चिरावदिटि रूपम् । ग्रहीतेति । चिण्वदिडभावपचे वलादिलक्षणस्य इटो दीर्घे रूपम् । अथ दृशेः कर्मलकारे उदाहरति दृश्यते इति । लिटि ददृशे । लुटि तासि चिण्वदिट्पक्षे दर्शिता । चिरवत्त्वाभावे 'सृजिदृशो :- ' इत्यम् । द्रष्टा । दर्शिष्यते द्रक्ष्यते । दर्शिषीष्ट । चिण्वदिडभावे तु 'लिङ्सिचावात्मने - पदेषु' इति कित्त्वात् 'सृजिदृशो :-' इत्यम्न । नापि लघूपधगुणः । दृक्षीष्ट । अदर्शीति । चिणि लघूपधगुणः । श्रदर्शिषतामिति । चिण्वदिटि रूपम् । चिरवत्त्वाभावे त्वाह सिचः किरवादनेति । 'लिसिचावात्मनेपदेषु' इति सिचः कित्त्वात् 'सृजिदृशो :-' इत्यन्न भवति, कितीति पर्युदासादित्यर्थः । अथ गृधातोः कर्मलकारे यकि ऋत इवे 'हलि च' इति दीर्घे गीर्यते । जगरे । लुटि तासि चिरवत्त्वपक्षे, गारिता । चिण्वत्वाभावे वलादिलक्षणे इटि गुणे रपरत्वे गरिता गरीता, 'वृतो वा' इति वा दीर्घः । गारिष्यते गरिष्यते गरीष्यते । गीर्यताम् । अगीर्यत । गीर्येत । गारिषीष्ट । चिण्वत्वाभावपक्षे तु 'लिसिचोरात्मनेपदेषु' इति इड्विकल्पः । इडभावपचे 'उश्च' इति कित्त्वम्, इत्त्वम् रपरत्वम्, 'हलि च' इति दीर्घः, षत्वम् गीर्षीष्ट । इट्पक्षे सिकलोपः । चिणि वधादेशस्य दृष्टत्वाश्चिण्वद्भावेन स्यादिषु प्राप्तिमाशङ्कय परिहरति न चेत्यादिना । श्रदर्शिषातामिति । 'न दृशः' इति क्सस्य निषेधादिह सिचि
1