________________
६०० ]
सिद्धान्तकौमुदी। [भावकर्मतिङ्. इति कुत्वम् । घानिता, हन्ता । घानिव्यते, हनिष्यते । प्राशीलिड वधादेशस्यापवादश्चिण्वद्भावः, आर्धधातुके सीयुटीति विशेषविहितत्वात् , धानिषीष्ट । पचे वधिषीष्ट । अधानिषाताम् , अहसाताम् । पक्ष बधादेशः । अवधि । न भवति, चिरवत्त्वादित्यर्थः । कुत्वमिति । तस्य णिति विहितस्यात्र चिण्वत्त्वात् प्राप्तिरिति भावः । घानिष्यते इति । 'ऋद्धनोः-' इति बाधित्वा नित्यत्वाचिरावदि । 'ऋद्धनोः-' इति तु चिरावदिटि कृते न भवतीत्यनित्यम्, नत्र वलीत्यनुवृत्तरिति भावः । नन्वाशीलिङि घानिषष्टित्यत्र हन् सीष्ट इति स्थिते परमपि चिण्वत्त्वं बाधित्वा वधादेशः प्राप्नोति, आर्धधातुके विवक्षिते विहितत्वेन वधादेशस्यान्तरङ्गत्वादित्यत आह प्राशीलिङि वधादेशस्यापवादश्चिण्वद्भाव इति । ननु घानितेत्यादौ अप्राप्तेऽपि वधादेश प्रारम्भात् कथं वधादेशस्य चिरावद्भावः अपवादः स्यादित्यत आह आर्धधातुके सीयुटीति । 'स्यसिच्सीयुट्-' इति सूत्रे अजन्तस्थ स्ये, अजन्तस्य सिचि, अजन्तस्य आर्धधातुके सीयुटि, अजन्तस्य तासौ, इत्यजन्तस्य चत्वारि वाक्यानि। एवं हनप्रहशामप्येकैकस्य चत्वारि वाक्यानीति स्थितिः । तत्र हन आर्धधातुके सीयुटि चिण्वदिड्विधिनिरवकाशत्वावधादेशापवादः, अप्राप्त एव वधादेशे आरम्भात् । वधादेशस्तु न चिण्वदिटोऽपवादः, तस्य वध्यादित्यत्र करि लिङि चरितार्थत्वादिति भावः । पक्षे इति । विएवत्त्वाभावपक्षे 'हनो वध लिलि' इति वधादेशे वलादिलक्षणे इटि अतो लोपे रूपम् , वधादेशस्यादन्तत्वात् । न च हनधातोरनुदात्तत्वादुपदेशे एकाच्वात्तदीयवधादेशस्यापि तथाविधत्वादिह कथं वलादिलक्षण इडिति वाच्यम् , 'एकाच उपदेशे-' इत्यत्र अच इत्येकत्वसामर्थ्यादेकत्वे सिद्ध पुनरेकग्रहणबलेन य उपदेशे एकाजेव नतु कदाप्यनेकाजिति लभ्यते । तेन वधेर्हन्त्युपदेशमादाय एकाचोऽपि न निषेधः । आदेशोपदेशे अनेकाच्वादित्युक्तं प्राक् । लुङि तु सिचश्चिणि उपधावृद्धी कुत्वेन घः । आत्मनेपदेष्वन्य तरस्यामिति वधादेशाभावः । अघानिषातामिति । चिण्वदिटि वधादेशाभावपक्षे रूपम् । अहसातामिति । चिरावदिडभावपक्षे 'हनः सिच्-' इति कित्त्वादनुदात्तोपदेशेत्यनुनासिकलोपः। हिति' इति वृद्ध्या रूपनिष्पत्तेः। आशीलिङीति । न तु लुङि । तत्र चिण्वद्भावाद् 'आत्मनेपदेष्वन्यतरस्याम्' इति वधादेशस्यापि वैकल्पिकतया येन नाप्राप्तिन्यायाभावादिति भावः। आर्धधातुके सीयुटीत्यादि । यद्यपि 'हनो वध लिलि' इत्यत्रापि प्रार्धधातुकाधिकारादार्धधातुके लिङीत्यपि समानम् , तथापि लिठिति पदद्वयसाधारणम् , सीयुट् तु आत्मनेपद एवेति विशेषविहितत्वमस्तीति भावः । अहसातामिति । चिण्वदिटोऽभावे 'हनः सिच्' इति कित्त्वाद् 'अनुदात्तोपदेश-' इत्यनुना