________________
प्रकरणम् ६२] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६६ (सू २३७० ) इत्यत्र अशितीति कर्मधारयादित्संज्ञकशकारादा निषेधः । एश प्रादिशिरवाभावात्तस्मिन्नास्वम् , जग्ले । २७६१ आतो युक्चिएकृतोः । (७-३-३३) प्रादन्तानां युगागमः स्याञ्चिणि मिति णिति कृति च । दायिता, दाता । दायिषीष्ट, दासीष्ट । अदायि । अदायिषाताम् , अदिषाताम् । अधायिषाताम् , अधिषाताम् । अग्लायिषाताम् , अग्लासाताम् । हन्यते । 'अचिएणलोः' (सू २५७४) इत्युक्रेनबो न । 'हो हन्तेः' (सू ३५८) षमाह घुमास्थेतीत्वमिति । ग्लैधातोर्भावे लिटस्तादेशस्य एशादेशे 'श्रादेचः-' इत्यात्त्वस्य अशितीति निषेधमाशङ्कयाह आदेच इत्यत्रेति । श् चासाविच्च इति कर्मधारयाश्रयणादित्संज्ञकशकारादौ प्रत्यये परे आत्त्वस्य निषेधो लभ्यते । एशः शित्त्वेऽपि आदिभूत कारकत्वाभावान्निषेधाभावात्तस्मिन्न् एशि परे आत्त्वं भवत्येवेत्यर्थः। जग्ले इति । आत्त्वे कृते 'आतो लोप इटि च' इति तस्य लोप इति भावः । आतो युक् । अगस्येत्यधिकृतमाता विशेषितम् , तदन्तविधिः । 'अचो रिणति' इत्यतो किणती रानुवृतं कृत एव विशेषणम् , न तु चिणः, तस्य णित्त्वाव्यभिचारात् , तदाह आदन्तानामित्यादि । दायितेति । चिरावदिट्पले युक् । प्रदायिषातामिति । 'स्थाध्वोरिच' इत्येतद् बाधित्वा परत्वाच्चिण्वदिटि कृते 'घुमास्था-' इतीत्त्वं न, अजादित्वात् । पुनः 'स्थाध्वोरिच्च' इति तु न भवति, अझलादित्वात् । तत्र हि 'इको झल्' इति सूत्राद् झल इत्यनुवृत्तम् । तथा च फलादिरेव सिच् किदिति लाभादिडादिः सिच् न कित् । तत्संनियोगादित्त्वमपि न भवतीत्याहुः । वस्तुतस्तु सत्यपि तस्मिन्नात्र काचित् क्षतिः । सिचः कित्त्वेऽप्यनिग्लक्षणया वृद्धया रूपसिद्धरिति दिक् । अथ हन्धातोः कर्मलकारे अाह हन्यते इति । अचिराणलोरिति । लुटि चिरावदिटि वृद्धौ ‘हनस्तोऽचिएणलोः' इति हनो नकारस्य तकारो पश्चादशोचीत्यर्थः । कर्मकर्तरि तु तत्प्रक्रियायामदारहरिष्यति अातो युक । 'अचो आणिति' इत्यतो अणितीत्यनुवर्तते । तच्च कृतो विशेषणं न तु चिणः । तस्य णित्त्वेनाव्यभिचारात् । चिरकृतोः किम्, चौडिः । बालाकिः । बाह्लादित्वादि । ददौ । णितीति किम्, पानीयम् । दानीयम् । अदायिषातामिति । 'स्थाध्वो. रिच्च' इत्येतद्बाधित्वा परत्वाच्चिरवदिदि कृते 'घुमास्था-' इतीत्वं न भवति । अजादित्वात् । 'स्थाध्वोरिच' इत्यपि पुनर्न भवति । अझलादित्वादित्याहुः । तेषामयमाशयः-'इको झल्' इति सूत्रात् झलनुवर्तते । तथा च झलादिरेव सिच् किन्न त्वयमिडादिः सिच् । एवं च तत्संनियोगशिष्टत्वादित्त्वमप्यत्र न भवतीति । वस्तुतस्तु सत्यपि तस्मिन्नेह काचित्क्षतिः। सिचः कित्त्वेऽप्यनिग्लक्षणाया अनिषेधाद् 'अचो