________________
५१८]
सिद्धान्तकौमुदी। [भावकर्मतिङ्दिताम्-' (स ४१५) इति नलोपः, नस्यते । इदितस्तु नन्यते । संप्रसारणम्, इज्यते । 'प्रयङ् यि विति' (सू २६४१) । शय्यते । २७५६ तनोतेर्यके । (६-४-४४) भाकारोऽन्तादेशो वा स्यात् । तायते, तन्यते । 'ये विभाषा' (सू २३१६), जायते, जन्यते । २७६० तपोऽनुतापे च । (३-१-६५) तपश्ब्लेश्चिएन स्यास्कर्मकर्तर्यनुतापे च । अन्वतप्त पापेन, पापं कर्तृ, तेनाम्याहत इत्यर्थः, कर्मणि लुछ । यद्वा पापेन पुंसा का अशो. चीत्यर्थः । 'घुमास्था-' (सू २४६२) इतीत्वम् । दीयते । धीयते । 'प्रादेच:-' धातो वलकारे यकि विशेषमाह अनिदितामिति नलेप इति । इदितस्त्विति । 'टु नदि समृद्धौ' इत्यस्माद्भावलकारे यकि इपित्वान्नलोपो नेत्यर्थः । अथ यजधातोः कर्मलकारे यकि विशेषमाह संप्रसारणमिति । 'वचिस्व. पियजादीनाम्-' इत्यनेनेति भावः । शीधातो वलकारे यकि विशेषमाह अययि किङतीति । तनोतेर्यकि । 'विड्वनोः-' इत्यतो श्रादिति 'ये विभाषा' इत्यतो विभाषेति चानुवर्तते, तदाह आकारोऽन्तादेशो वा स्यादिति । शेषपूरणमिदम् । तायते, तन्यते इति । कर्मणि लकारः । तपोऽनुतापे च । 'च्ले: सिच्' इत्यतः च्लेरिति 'चिण ते-' इत्यतश्चिण इति 'न रुधः-' इत्यतो नेति चानुवतते । चकारा 'अचः कर्म-' इत्यतः कर्मकर्तरीति समुच्चीयते, तदाह तपश्च्लेरित्यादि । तत्र कर्मकर्तरि कर्मकर्तृप्रक्रियायामुदाहरिष्यति । अनुतापे कर्मलकारे उदा. हरति अन्वतप्त पापेनेति । पापेनेति कर्तरि तृतीयेति मरवाह पापं कर्विति। अनुपूर्वस्य तपेः पश्चात्तापार्थकत्वे असंगतिः। नहि पापस्य स्र्यादिवत्तपनशक्विरस्ति । शोकार्थकत्वे अकर्मकत्वापत्तिरित्यत आह अभ्याहत इति । अनुपूर्वस्तपिरिह उपसर्गवशाद् अभिहननार्थक इति भावः । तस्य च सकर्मकत्वात् कर्मलकार उपपद्यते इति मत्वाह कर्मणि लुङिति । शोकार्थकत्वमाश्रित्य भाव वा लुङित्याह यद्वा पापेन पुंसा कषेति । परिणाममसमीक्ष्य सहसा किञ्चिदकृत्यं कृत्वा पश्चाद् दुःखमन्वभवदित्यर्थः । दुःखानुभवः शोकः । धात्वर्थेनोपसंग्रहादकर्मकः । शुच शोके अकर्मकः । पुत्रमनुशोचतीत्यत्र तु वियुक्तं पुत्रं स्मृत्वा शोचतीत्यर्थः । स्मरणे पुत्रस्य कर्मत्वाद् द्वितीयेत्यविरोधः । अथ दाधातोर्धाधातोश्च कर्मलकारे यकि विशे. स्याशयः । तनोतेर्यकि । 'विट्वनो:-' इति सूत्रादादिति, 'ये विभाषा' इत्यतो विभाषेति चानुवर्तते । यकि किम् , तंतन्यते। तपोऽनु । चकारेण 'अचः कर्मकर्तरि' इत्यतः कर्मकर्तरीत्येतदनुकृष्यते। कर्मण्युदाहरणमिति ध्वनयति अभ्याहत इत्यर्थ इति । भावेऽपीदमुदाहरणमित्याह पापेन पुंसेति । अविचार्य कर्म कृत्वा