________________
प्रकरणम् ६२] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६७ प्युपदेशग्रहणाचिरवदि , पारिता, प्रर्ता । स्मारिता, स्मता । 'गुणोऽति-' (सू २३८०) इस्यत्र नित्यग्रहणानुवृत्तेरुकवानेह गुणः, संस्क्रियते । 'अनिअाह स्मयते इति । 'गुणोऽर्ति-' इति संयोगादित्वाद् गुणे रपरत्वमिति भावः । ननु लुटि ऋता, स्मृ ता इति स्थिते चिरावदिटं बाधित्वा परत्वाद् गुणः प्राप्नोति नित्यत्वाच्च अकृते कृते च चिरावदिटि गुणस्य प्राप्तेः । कृते तु गुणे रपरत्वे अजन्तत्वाभाच्चिएवदिडभावे अनिट्त्वाद्वलादिलक्षणेडभावे अर्ता स्मर्तेत्येव स्यात्, श्रारिता स्मारितेति न स्यादित्यत आह परत्वादित्यादि । कृते गुणे रपरत्वे अजन्तत्वाभावेऽपि उपदेशे योऽच् तदन्तस्येत्युक्तश्चिण्वदिड् निर्बाध इत्यर्थः ।
आरितेति । कृतेऽपि गुणे रपरत्वे चिण्वदिटि उपधावृद्धिः । अतॆति । चिण्वदिडभावे रूपम् । एवं स्मारिता स्मर्तेत्यपि । ननु संपूर्वात् कृतः कर्मणि लकारे यकि "रिङ् शयग्लि' इति रिडादेशे 'संपरिभ्या करोती भूषणे, समवाये च' इति सुटि संस्क्रियते इति वक्ष्यते । तत्र 'गुणोऽर्ति-' इति संयोगादित्वाद् गुणः स्यादित्यत अाह नित्यग्रहणानुवृत्तेरिति । 'नित्यं छन्दसि' इत्यतो नित्यमित्यनुवृत्तः 'गुणोऽर्ति' इत्यत्र नित्यं यः संयोगादिस्तस्यैव संयोगादिलक्षणो गुण इति लभ्यते । कृञ्तु न नित्यं संयोगादिः, संपरिपूर्वकत्वाभावे तदभावादिति भावः। अथ संस्एवेति भावः । परत्वादिति । चिरावदिडपेक्षया । नित्यत्वादिति । न च कृते चिरावदिटि वृद्धिप्रवृत्त्या गुणस्य नित्यत्वं नेति शङ्कथम् । 'प्रचो णिति' इति वृद्धि बाधित्वा परत्वाद् गुणे रपरत्वे च पश्चाद् 'अत उपधायाः' इति वृद्धिप्रवृत्त्या गुणस्य नित्यत्वानपायात् । उपदेशग्रहणादिति । तत्सामर्थ्यादुपदेशे योऽच् तदन्तत्वम् । ऋधातोर्व्यपदेशिवद्भावेन यत्स्थितं तदादाय एयन्तादप्यारितेत्यादौ चिरावदिट् प्रवर्तत इति भावः । न न्वेवं स्मारितेत्यादि न सिध्येत् , स्मृ इत्यस्य उपदेशे योऽच् तदन्तत्वाभावात् । उपदेशेऽजन्तानामिति व्याख्याने तु ण्यन्तस्य न स्यादित्युक्तत्वादिति चेत् । सत्यम् । अतएवापरितोषान्मनोरमायामुक्तमस्तु वा उपदेशे यदजन्तं तस्येति व्याख्यानम् । अगस्येति व्यधिकरणषष्ठी अङ्गावयवस्याजन्तस्येत्यर्थ इति । एवं च णिजन्तेऽपि शामितत्यादौ चिरावदिट् सिध्यति, व्यपदेशिवद्भावेन णिजेव णिजन्तस्तदवयवकं शामीत्यङ्गमित्याधयणात् । श्रारिता स्मारितेत्याद्यपि सिध्यति । ऋधातुः स्मृधातुश्चोपदेशेऽजन्तस्तदवयवकं भवत्यार् स्मारित्यङ्गमिति दिक् । नित्यग्रहणानुवृत्तरिति । 'नित्यं छन्दसि' इति सूत्रात् । काशिकायो तु सुटो बहिरङ्गलक्षणस्यासिद्धत्वादभक्तत्वाद्वा संयोगादित्वमङ्गस्य नास्तीति गुणोऽत्र न प्रवर्तत इत्युक्तम् । 'सुट् कात्पूर्वः' इति विधीयमानः कभक्तो न त्वङ्गभक्तस्तेनासंयोगायेव अङ्गमित्यभवत्वादित्य