________________
५६६ ] सिद्धान्तकौमुदी। [भावकर्मतिङ्तासिसाहचर्यादस्तेरपि व्यतिहे इत्यादी सार्वधातुके एव 'ह एति' इति हत्वप्रवृत्तेरित्याहुः । भाविता ।चिएवदिट भाभीयत्वेनासिद्धत्वागिणलोपः। पक्षे भावयिता। भाविध्यते, भावयिष्यते । भाव्यताम् । अभाग्यत । भाव्येत । भाविषीष्ट, भावयिषीष्ट । प्रभावि प्रभाविषाताम् , प्रभावयिषाताम् । बुभूष्यते । बुभूषांचके । बुभूषिता । बुभूषिष्यते । बोभूय्यते । यलगन्तात्तु, बोमूयते । बोभवाचके । बोभाविता, बोभविता । 'प्रकृस्सार्व-' (सू २२१८) इति दीर्घः । स्तूयते विष्णुः । तुष्टुवे । स्ताविता, स्तोता। स्वाविष्यते, स्तोज्यते । प्रस्तावि प्रस्ताविषाताम् , अस्तोषाताम् । 'गुणोर्ति-' (सू २३८०) इति गुणः । भर्यते । स्मर्यते । सस्मरे । परत्वाचिस्यत्वाञ्च गुणे रपरे कृते अजन्तत्वाभावेऽ. तासीति । 'ह एति' इत्यत्र तासस्त्योरित्यनुवर्तते । तत्र एधिताहे इत्यादौ तासेः सस्य सार्वधातुक एव एति परे हकार इति निर्विवादम् । तथाविधतासिसाहचर्यादस्तेरपि सकारस्य व्यतिहे इत्यादौ सावधातुक एव परे प्रवृत्तिः । अतो भावयामासे इत्यत्र नास्तेः सकारस्य हकारः, एकारस्यार्धधातुकत्वादित्यर्थः । भावितेति । एयन्ताद् भावि ता इति स्थिते परत्वाद्वलादिलक्षणमिटं बाधित्वा चिण्वदिटि तस्याभीयत्वेनासिद्धत्वादनिटीति निषेधाभावारिणलोपे भाविनति रूपम् । अत एव चिरवदिविधौ उपदेशे योऽजित्येव व्याख्यातम् , न तु उपदेशे अजन्तस्येति, तथा सति हि णिजन्तस्य उपदेशाभावान स्यादि भावः । वलादिलक्षणे इटि कृते तु तस्य अनाभीयत्वेन असिद्धत्वाभावादनिटीति निषेधारिणलोपाभावे णेर्गुणायादेशयोः कृतयोर्भावयितेति रूपमिति मत्वाह पक्षे भावयितति । अथ समन्ताद् भूधातोः भावलकारे उदाहरति बुभूष्यते इति । यकि सनोऽकारस्य 'श्रतो लोपः' इति लोपः। बुभूषिता। बुभूषिष्यते इति । चिरवदिटि वलादिलक्षणे इटि च रूपं तुल्यम् । चिरवदिड्भावपक्षेऽपि तदतिदेशन प्राप्तां वृद्धिं बाधित्वा परत्वादतो लोपः। अथ यङन्ताद् भूधातोः भावलकारे उदाहरति बोभूय्यत इति । यकि यडोऽकारस्य पूर्ववदतो लोपः। द्वियकारकं रूपम् । यक्लुगन्ताद् बोभूयते इति एकयकारं रूपम् । ष्टुब्धातोः कर्मलकारे यकि तस्यार्धधातुकत्वाद् 'अतो दी? यनि' इत्यप्राप्तावाह अकृत्सार्वेति । स्ताविता, स्तोतेति । चिण्वदिडभावपक्षे अनिटकत्वान्नेट् । अथ ऋधातोः कर्मणि लकारे कृते कित्त्वाद् गुणनिषेषे प्राप्ते पाह गुणोऽर्तीति । अर्यते इति । गुणे कृते रपरत्वम् । स्मृधातोः कर्मणि लकारे पुनरत्र चिराग्रहणं कृतम् । तशब्दे किम् , अभाविषाताम् । चिएचदिट इति । एयन्तस्य धातोरुपदेशाभावेऽप्युपदेशे योऽजिति व्याख्यानाच्चिरवदिडिह प्रवर्तत