________________
प्रकरणम् ६२ ]
बालमनोरमा-तत्त्वबोधिनीसहिता ।
[ ५६५
1
I
भाविता, भविता । भाविष्यते, भविष्यते । भूयताम् । अभूयत । भूयेत । भाविषीष्ट, भविषीष्ट २७५८ चिरभावकर्मणोः । ( ३-१-६६) ग्लेश्चियम्याद्भावकर्मवाचिनि तशब्दे परे । अभावि । प्रभाविष्यत, अभविष्यत । तिढोलस्वात्कर्मणि न द्वितीया । अनुभूयते आनन्दचैत्रेण त्वया मया च । अनुभूयेते अनुभूयन्ते । त्वमनुभूयसे । महमनुभूये । अन्वभावि । अन्वभाविषाताम् अन्वभविषाताम् । णिलोपः । भाग्यते । भावयांचक्रे । भावयबभूवे । भावयामासे इह तशब्दस्य एशि, इट एवे च कृते 'ह एति' ( सू २२५० ) इति हत्वं न, णिलोपः । तथा भाविष्यते इत्यत्र भू स्य इति स्थिते परमपि वलादिलक्षणम् इटं बाधित्वा नित्यत्वादनेन इट् वल्निमित्ते इटि कृतेऽकृते च चिण्वदिटः प्रवृत्त्या कृताकृतप्रसङ्गित्वात् । वलादिलक्षणस्त्विड् न नित्यः, चिण्वदिटि कृते वलादित्वस्य विहतत्वेन वलादिलक्षणस्य इटः प्रवृत्तेः । नित्यश्चायमित्यस्य चिरावदिडिति शेषः । वनिमित्त इत्यनन्तरम् इडनित्य इति शेषः । श्रनित्यत्वे हेतुः - विघातीति । चिरावदिटो वलादिनिमित्तविघातकत्वादित्यर्थः । एवं च सेट्कत्वेऽप्यनेनैव इट् । एतदभावपक्षे तु सेट्कत्वे वलादिलक्षण इडिति बोध्यम्, तदाह भवितेति । चिण्वदिडभावपक्षे वलादिलक्षण इडिति भावः । चिण् भावकर्मणोः । च्लेरिति । 'चलेः सिच्' इत्यतस्तवृत्तेरिति भावः । तशब्दे परे इति । 'चिण् ते पदः ' इत्यतस्तदनुवृत्तेरिति भावः । अभावीति । च्लेश्चिणि कृते 'चिणो लुक्' इति तशब्दस्य लोपः । चिविधौ तशब्दे किम् ? अभाविषाताम् । अथ अनुपूर्वाद् भूधातोरुपभोगार्थ कात्सकर्मकात्वर्मणि लकारे विशेषमाह तिङोक्तत्वादिति । कर्तुस्त्वनभिहितत्वात् तृतीयैवेति भावः, तदाह अनुभूयते श्रनन्द चैत्रेण त्वया मया चेति । इहानन्दस्य तिङाभिहितत्वात् प्रथमेति भावः । युष्मदस्मदुपात्तयोः कर्त्रेस्स्वनभिहितत्वात् तृतीया । अनुभूयेते इति । सुखदुःखे इति शेषः । अनुभूयन्ते इति । सुखानीति शेषः । णिलोप इति । भूधातोर्णो वृद्धौ श्रावादेशे भावि इति ण्यन्तात् कर्मणि लटस्तादेशे यति णिलोप इत्यर्थः । भावयामासे इति । प्रथमपुरुषैकवचने उत्तमपुरुषैकवचने च रूपम् । इहेति । भाषयामासे इत्यत्र प्रथमैकवचनतशब्दस्य 'लिटस्तमयोः -' इति एशादेशे उत्तमपुरुषैकवचनस्य इटश्च 'टित आत्मनेपदानाम् -' इत्येत्त्वे च कृते भावयामास् ए इति स्थिते '६ एति' इति सकारस्य हकारः प्राप्तो न भवतीत्यर्थः । कुत इत्यत आह
1
चिण् भावकर्मणोः । 'च्लेः सिच्' इत्यतः च्लेरिति 'चिण ते पदः' इत्यतस्ते इति चानुवर्तते । तत्रत्यं तु चिरप्रहणं 'न रुधः' इति निषेधेन तिरोहितमिति