________________
५६४]
सिद्धान्तकौमुदी। [भावकर्मतिङ्संनियोगशिष्टस्वात्तदभावे न । इहार्धधातुके इत्याधिकृतं सीयुटो विशेषणम्, नेतरेषामन्यभिचारात् । चिएवद्भावाद्वद्धिः । नित्यश्चार्य वग्निमित्तो विघाती । त्वात् । चिण्वत्त्वाभावे अयमिड् नेत्याह अयमिडिति । सेटकस्य वलादित्वलक्षण इट् तु स्यादेवेति भावः। ननु भूयेतेति विधिलिडि चिण्वत्त्वम् इट् च स्यातामित्यत आह इहार्धधातुके इति । नेतरेषामिति । स्यसिच्तासीनां न विशेषणमित्यर्थः। अव्यभिचारादिति । स्यसिच्तासीनां सर्वत्रार्धधातुकत्वनियमादिति भावः । अत्र वार्तिकम् ।।
'चिराववृद्धियुक् च हन्तेश्च घत्वं दीर्घश्चोक्को यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिनित्यश्चाय, वनिमित्तो विघाती ॥ इति ।
स्यसिच्सीयुडिति सूत्रस्य वृद्धयादि प्रयोजनमित्यर्थः। तत्र वृद्धि दर्शयति चिरावद्भावाद् वृद्धिरिति । लुटि भू ता इति स्थिते चिण्वत्त्वाद् 'अचोऽणिति' इति वृद्धिरित्यर्थः । इडागमश्चेत्यपि बोध्यम् । तत्फलं तु वक्ष्यते। तथा दाधातोलुटि 'आतो युक् चिराकृतोः' इति युक् । तथा लुटि घनिष्यते इत्यत्र 'होहन्तेणिनेषु' इति घत्वम्। शमेहेतुमएण्यन्ताल्लुटि शामिता, शमितत्यत्र 'चिएणमुलोः-' इति दीर्घः। तथा अनेनैवात्र इटि कृते तस्य भाभीयत्वेनासिद्धत्वाद् अनिटीति निषेधाभावाद् न चैते हनिर्माणकादेशा आजास्तदेतदाह अङ्गकार्य वा स्यादिति । सीयुट इति । तथा च सीयुटशब्देन तद्विशिष्टं लक्ष्यत इति भावः। आर्धधातुक इत्यनेन व्यावय॑स्तु विधिलिङ् । तेन भूयेतेत्यत्र न भवति । न चात्र 'लिङः सलोपः-' इति सलोपावलादित्वं नास्तीति वाच्यम् , तस्येहानपेक्षणात् । यदाहुः-'चिरावद् वृद्धियुक् च हन्तेश्च घत्वं दीर्घश्चोक्को यो मितां वा चिणीति । इट् चासिद्धस्तेन मे लुप्यते णिनित्यश्वायं वल्निमित्तो विधाती।' इति । अस्यार्थः-चिण्वदित्यतिदेशस्य वृद्ध्यादिकं प्रयोजनम् । तथा हि-भाविता भाविष्यते इत्यादौ वृद्धिः । दायिता दायिषीष्टे. त्यादौ युक् । घानिता घानिष्यते इत्यादी घत्वम् । हेतुमएण्यन्तात्कर्मणि लकारे शामिता शमिता शामिष्यते शमिष्यते इत्यादी चिरणमुलोरिति मितामुपधाया वा दीर्घः । अत्रैव शामितत्यादौ 'स्यसिच्सीयुट्-' इत्यनेन कृत इड् आभीयत्वेनासिद्धस्तेनानिटीति निषेधो न प्रवर्तत इति गर्लोपो भवति। भाविष्यते इत्यदौ भू स्य इति स्थिते परमपि वलादिलक्षणमिटं बाधित्वा चिरावदिडेव भवति । यतोऽयं नित्यः । वल्निमित्तो विघाती त्वनित्यः। साप्तमिके तस्मिन्कृतेऽयं चिरवदिड् भवति। अस्मिन्कृते तु स न भवति । वलादिनिमित्तस्य विहितत्वात् । एवं च नित्यत्वात् सेड्भ्यो . प्ययमेवेड् भवति । एतदभावपक्षे तु सेड्भ्यो वलादिलक्षण इड् भवतीति बोध्यम् ।
१-इदं वाक्यं बहुत्र नोपलभ्यते ।