________________
प्रकरणम् ६२] बालमनोरमा-तत्त्वबोधिनीसहिता। [५६३ युद्तासिषु भावकर्मणोरुपदेशेऽज्झनग्रहदृशां वा चिस्वदिद् च । (६-४-६२) उपदेशे योऽच् तदन्तानां हनादीनां च चिणीवाकार्य वा स्यात्स्यादिषु परेषु भावकर्मणोर्गम्यमानयोः स्यादीनामिडागमश्च । अयमिट चिरवद्राव. अन्यकर्तृकं भवनमिलर्थः । स्यसिच् । अच् इन् प्रह् दृश् एषां द्वन्द्वात् षष्ठी। उपदेश इत्यच एव विशेषणम् , नेतरेषाम् , अव्यभिचारात्, तदाह उपदेश योऽजिति । अजित्यस्य उपदेशान्वयित्वेऽपि सौत्रः समासः । अजिति लुप्तषष्ठीक वा । चिरावदिति सप्तम्यन्ताद्वतिः स्यसिच्सीयुट्तासिष्वित्युपमेयतः सप्तमीदर्शनात्, तदाह चिणीवेति। अङ्गकार्यमिति । अङ्गस्येत्यधिकृतत्त्वादिति भावः। भावकर्मवाचिषु स्यादिष्विति नार्थः, सीयुटो लिबागमतया भावकर्मवाचित्वेऽपि स्यसिच्तासीनां भावकर्मवाचित्वाभावात् । नापि भावकर्मवाचिनि प्रत्यये परे ये स्यादयस्तेवित्यर्थः, स्यसिच्तासीनां भावकर्मवाचिप्रत्ययपरत्वसंभवेऽपि सीयुटस्तदसंभवात् । सीयुडागमविशिष्टस्यैव लिडो भावभवाचितया केवलसीयुटो न भावकर्मवाचिप्रत्ययपरकत्वमस्ति । अतो विषयसप्तमीति मत्वाह भावकर्मणोर्गम्यमानयोरिति । इविधौ स्यसिच्सीयुटतासिषु इति सप्तमी षष्ट्या विपरिणम्यते इति मत्वाह स्यादी. नामिडागमश्चति । अथ अज्झनग्रहदशा स्यादीनां च न यथासंख्यम् , व्याख्यानात् । स्यादिषु परेषु अास्य इडिति नार्थः, 'आर्धधातुकस्येवलादः' इत्यत्र 'आर्धधातुके' इति योगं विभज्य यावानिट स आर्धधातुकस्यैवेति भाष्ये उक्तत्वात् । चिणि यदाधिकारविहितं कार्य तस्यैवात्रातिदेशः, न तु चिणि दृष्टमात्रस्य । तेन घानिष्यते इत्यत्र 'हनो वध लिलि, लुछि च' इति चिणि दृष्टो वधादेशश्चिण्वदिति नातिदिश्यते, तस्य द्वैतीयोकत्वेन अगाधिकारविहितत्वाभावात् । तथा प्रायिष्यते इत्यत्र इणो गादेशो न। अध्यायिष्यते इत्यत्र इडो गागदेशो न, द्वैतीयीकवाच्यम्। 'त्रियां क्विन्' इत्यधिकारात्स्त्रीत्वावधारणेन 'सामान्ये नपुंसकम्' इत्यस्याप्रवृत्तेः, बहुत्वावधारणेनैकवचनाप्रवृत्तेश्चेत्युक्तम् । स्यसिच्सीयुट्तासिषु । यद्यप्यजादयो द्वन्द्वेन निर्दिष्टास्तथाप्युपदेश इत्यच एव विशेषणं न हनादीनामव्यभिचारात्तदाह उपदेशे योऽजिति । उपदेशे अजन्तानामिति न व्याख्यातम् , तथाहि सति णिज. न्तस्य न स्यात्तस्योपदेशाभावात् । उपदेशो हि साक्षादुच्चारणम् । न च ण्यन्तस्य तदस्ति । चिरवदिति सप्तम्यन्ताद्वतिः, 'स्यसिच्सीयुट्तासिषु-' इति प्रतियोगिनि सप्तमीनिर्देशादतो व्याचष्टे चिणीवेति । ननु चिणि दृष्टमात्रस्य वृध्यादिकार्यस्यातिदेशे घानिष्यते आयिष्यते अध्यायिष्यते इत्यत्र हनो धादेशः, इणो गादेशः, इने गालादेशोऽपि स्यादिति चेत् । मैवम् । अझाधिकारबलेन आजस्यैव कार्यस्यातिदेशात् ।