________________
५९२]
सिद्धान्तकौमुदी। [भावकर्मतिचनादि । किं त्वेकवचनमेव । तस्यौत्सर्गिकत्वेन संख्यानऐक्षत्वाद् अनभिहिते कर्तरि तृतीया । स्वया मया भन्यैश्च भूयते । बभूवे । २७५७ स्यसिच्सी. ग्यम् । तिब्वाच्या या भावना क्रिया सा असत्त्वरूपा लिङ्गसंख्यान्वयायोग्या, शब्दशक्तिस्वभावात् । ततश्च तस्यां तिङ्वाच्यभावनायां द्वित्वबहुत्वयोरप्रतीतेः युवाभ्यां युष्माभिर्वा श्रास्यते इत्यादौ न द्विवचन बहुवचनं चेत्यर्थः । तिङ्वाच्येत्यनेन कृद्वाच्यायाः क्रियाया: लिङ्गसंख्यान्वयित्वात्मकं सत्त्वरूपत्वमस्तीत्युक्तं भवति । तद्यथा, पाको पाका इत्यादि । तदुक्तम् , 'सार्वधातुके यक्' इति सूत्रे भाष्ये 'कृदभिहितो भावो द्रव्यवत्प्रकाशते' इति । द्रव्यवद् लिङ्गसंख्यान्वयं लभते इत्यर्थः, शब्दशक्तिस्वभावादिति भावः । ननु तिब्वाच्यभावनाया असत्त्वरूपतया द्विबहुवचनाभावे श्रास्यते इत्यादौ एकवचनं च न स्यादित्यत आह किं त्वेकवचनमेवेति । तिवाच्यभावलकारस्येति शेषः । तस्येति । 'छकयोद्विवचनैकवचने' 'बहुषु बहुवचनम्' इति सूत्रन्यासं भङ्कवा 'एकवचनं द्विवहुषु द्विबहुवचने' इति सूत्रन्यासः कर्तव्यः । तत्र द्वित्वबहुत्वयोर्द्विबहुवचननियमे सति तयोरविषये एकवचनमिति लभ्यते इति भाष्ये स्पष्टम् । एवं च एकवचनस्य एकत्वमुत्सृज्य द्विबहुवचनान्यविषये विहितत्वेन श्रौत्सर्गिकतया एकत्वसंख्यानपेक्षत्वाद् भावलकारस्य असत्त्वरूपभाववाचित्वेऽप्येकवचनमेवेति भावः । अनभिहिते इति । भावलकारे कर्तुस्तिवाच्यत्वाभावेन अनभिहितत्वात्तृतीयेत्यर्थः। त्वया मयेति । त्वत्कर्तृकं मत्कर्तृकम् मिष्टमेवेति पाकं पाकेनेत्यादौ यथायथं द्वितीयादयः प्रवर्तन्ते। अतएव भाष्यकृतोत 'दभिहितो भावो द्रव्यवत्प्रकाशते' इति । द्रव्यधौल्लिङ्गसंख्याकारकादीन् गृह्णातीत्यर्थः । एकवचनमेवेति । प्रायोवादोऽयम् । अन्यथा 'उष्ट्रासिका प्रास्यन्ते हतशायिकाः शय्यन्ते' इति भाष्ये धात्वर्थनिर्देशे एलि कृदभिहितो भावो द्रव्यवत्प्रकाशत इत्यासिकाः शायिका इत्यत्र बहुवचनसिद्धावपि प्रास्यन्ते शय्यन्ते इत्यत्र तन्न सिध्येत् । न च कर्मण्येवात्र लकारोऽस्त्विति शङ्कयम् । धातुद्वपस्याप्यकर्मकत्वेन तदसंभवाद् अर्थासातश्च । तत्र युष्ट्राणां यादृशान्यासनानि हतनी यादृशानि शयनानि तादृशानि देवदत्तादिकर्तृकान्यासनादीनीत्यर्थः । सादृश्यावगमादिह आख्यातवाच्यस्यापि भावस्य भेदावभासाद्वहुवचनम् । न चैवं संख्यान्वयित्वे असत्त्वरूपता न स्यादिति वाच्यम् । लिङ्गकियानाधारकारकयोगाभावमात्रेणासत्त्वरूपत्वमुपपद्यत इति कारकेषूक्तत्वात् । केचिदिह उष्ट्रासिकाहतशायिकाशब्दयोस्तत्सदृशे लक्षणों वीकृत्य श्रास्यन्त इत्यादिना अभेदान्वयमाहुः । मनोरमायां तु श्रासिकाः शायिका इति च द्वितीयाबहुवचनं क्रियाविशेषणत्वेन कर्मत्वात् । न चैवं क्लीबत्वमेकवचनान्तत्वं च स्यादिति