Book Title: Kuvalayanand Author(s): Kashinath Vasudev Khandekar Publisher: Jagdishwar Mudranalay View full book textPage 5
________________ ॥ श्रीः॥ श्रीपरमेश्वरोजयति। अमरीकबरीभारभ्रमरीमुखरीकतम् ॥दू रीकरोतुदुरितंगौरीचरणपंकजम् ॥१॥ श्रीगणेशायनमः। अनुचिंसमहालक्ष्मीहरिलोचनचंद्रिकां। कुर्वेकुवलयानंदसदलं कारचंद्रिकां॥१॥ चिकीर्षिताविघ्नसिद्धयइष्टदेवतांस्तौति । अमरीति।अत्रचरणमेवपंक जमितिमयूरव्यंसकादिसमासाश्रयणात्परिणामालंकारः। चरणेआरोप्यमाणस्यपंक जस्यारोपविषयचरणात्मतापरिणतिविनादुरितदूरीकरणक्रियार्थत्वासंभवात् परिणा माक्रियार्थश्चेद्विषयी विषयात्मनेति'तल्लक्षणात्ानचपंकजमिवचरणमितिपूर्वपदार्थप्रधा नउपमितसमासएवास्तितिशंक्यं । अमरीणांकबरीभारस्यकेशपाशस्यसंबंधिनीसौगं ध्यलोभात्तसंस्रष्टायाभ्रमरीतयामुखरीकृतमितिविशेषणस्यानुगुण्याभावात्तस्यपंकजग तत्वेनैवप्रसिद्धेरिति । एतद्विशेषणावगतेनचपादपतनेनाभिव्यज्यमानागराि विषयामु रांगनागतारतिःकविगतांतांपुष्णातीतिमेयोलंकारोपियोध्यः ॥ १ ॥ परस्परतपःसंपत्फलायितपरस्परौ ॥ प्रपं चमातापितरौप्राञ्चौजायापतीस्तुमः॥ २॥ परस्परेति। पांचौ पुरातनौजायापतीअर्थादुमामहेश्वरौस्तुमः। किंभूतौ प्रपंचस्यजी वर्गस्यमातापितरूपौनिरुपाधिकृपाश्रयत्वाद्धितोपदेष्टुत्वाच्च । तारस्परसंबंधिन्या स्तपःसंपत्तेः फलवदाचरितंपरस्परस्वरूपंययोस्तौ। अत्रपरशब्दस्यक्रियाविनिमयविव क्षायांकर्मव्यतिहारेसर्वनाम्नोद्वेवाच्येइतिवार्तिकेनविर्भावेअसमासवद्भावेपूर्वपदस्थस्य मुपःसुर्वक्तव्यइसनेनसुपःस्वादेशेचपरस्परशब्दव्युत्पत्तेःपार्वतीतपःसमृद्धिफलायितः परमेश्वर परमेश्वरतपःसंपत्फलायिताचपार्वतीसर्थोलभ्यते। तपःसंपत्तेश्चफलंनिरतिश यानंदइति तदुपमयापरस्परंपरमप्रेमास्पदखलक्षणः शृंगारोव्यज्यमानःसौभाग्यातिश यव्यंजनमुखेनशिवयोर्भावप्रकर्षेपर्यवस्यतीतिसहृदयैराकलनीयं । मातापितरावितिरू पकाभ्यामुक्तोपमयो संसृष्टिः। परस्परंचोपमयो फलायितेसेकवाचकानुप्रवेशलक्षणः । संकरइतिदिक् ॥२॥Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 202