________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२७
१ विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः ।
२ शृङ्गारहास्यकरुणा रौद्रवीरभयानका बीभत्साद्भुतशान्ता नव रसाः ।
३ स्त्रीपुंस माल्यादिविभावा जुगुप्सालस्यौय्यवर्जव्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः । ४ सुखमयधृत्यादिव्यभिचारी रौमाश्चाद्यनुभावः सम्भोगः ।
५ शङ्कादिव्यभिचारी सन्तापाद्यनुभावोऽभिलाषमानप्रवासरूपो विप्रलम्भः ।
६ देवपावश्याभ्यामाद्यो द्वेधा ।
७ प्रणयेयभ्यां मानः ।
८ कार्यशापसम्भ्रमैः प्रवासः ।
९ विकृतवेषादिविभावो नासास्पदनाद्यनुभावो निद्रादिव्यभिचारी हासो हास्यः ।
१० उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थ त्रेधा ।
११ एतत्संक्रमजैर्हसितोपहसितातिहसितैः परस्थोऽपि । १२ इष्टनाशादिविभावो देवोपालम्भाद्यनुभावो दुःख
For Private and Personal Use Only