________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३७
२० गूढापराधः शठः। २१ व्यसनी पापकुल्लुब्धः स्तन्धो धीरोद्धतः प्रति
नायकः। २२ तद्गुणा स्वपरसामान्या नायिका त्रेधा । २३ स्वयमूढा शीलादिमती स्वा । २४ वयाकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा। २५ धीरा धीराधीरा ऽधीराभेदादन्त्ये त्रेधा । २६ षोढापि ज्येष्ठाकनिष्ठाभेदाद् द्वादशधामध्यागौ___ढ्योः प्रत्येकं त्रिभेदत्वम् । २७ सोत्पासवक्रोक्त्या सवाष्पया वाक्यारुष्येण क्रोधि
न्यो मध्याधीराद्याः।। २८ उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संत
जनधाताभ्यां प्रौढाधीरायाः। २९ परोढा परस्त्री कन्या च । ३० गणिका सामान्या । ३१ स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रल
ब्धा अभिसारिका चेति स्वस्त्रीणामष्टावस्थाः। ३२ अन्त्यव्यवस्था परस्त्री।
For Private and Personal Use Only