________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२३६
४ धीरे गतिदृष्टी समितं वचो विलासः । ५ मृदुशृङ्गारचेष्टा ललितम् । ६ क्षोभेप्यनुल्बणं माधुर्यम् । ७ विघ्नेप्यचलं स्थैर्यम् । ८ हर्षादिविकारानुपलम्भकृद्गाम्भीर्यम् । ९ स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् । १० पराऽधिक्षेपाचसहनं तेजः। ११ धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा । १२ दक्षिणधृष्टानुकूलशठभेदादेकैकश्चतुर्धा । १३ गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महा___सत्त्वो दृढव्रतो धीरोदात्तः । १४ कलासक्तः सुखी शृङ्गारी मृदुनिश्चिन्तो धीर
ललितः। १५ विनयोपशमवान् धीरशान्तः । १६ शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रो___ऽवलिप्तो धीरोद्धतः। १७ ज्येष्ठायामपि सहृदयो दक्षिणः । १८ व्यक्तापराधो धृष्टः। १९ एकभार्योऽनुकूलः।
For Private and Personal Use Only