Book Title: Kusumavali
Author(s): Hemchandracharya,
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२४३
हिंसाद्य सत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंस दुर्बुद्धिपरिग्रहाच्च
Acharya Shri Kailassagarsuri Gyanmandir
ब्रूमस्त्वदन्यागममप्रमाणम् ॥ १० ॥ हितोपदेशात्सकलज्ञक्लृप्तेमुमुक्षु मत्साधुपरिग्रहाच्च । पूर्वापरार्थेप्यविरोधसिद्धे
स्त्वदागमा एव सतां प्रमाणम् ॥ ११ ॥
क्षिप्येत वान्यैः सदृशीक्रियेत वा तवाङ्घ्रिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं
परैः कथंकारमपाकरिष्यते ॥ १२ ॥
तद्दुःषमाकालखलायितं वा
पचेलिमं कर्म भवानुकूलम् । उपेक्षते यत्तव शासनार्थ
मयं जनो विप्रतिपद्यते वा || १३|| परः सहस्राः शरदस्तपांसि
युगान्तरं योगमुपासतां वा ।
तथापि ते मार्गमनापतन्तो
न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥ १४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262